________________
C4%
C
मूलम्-यथा पुनः स्वस्थमनाः स्ववन्धून् , जानाति नैवं मधुमत्त एषः।
संन्त्येषु तान्येव किलेन्द्रियाणि, कथं विपर्यास इयानभिष्यात् ? ॥७॥ टीका-अत्रैव दृष्टांतरमाह-यथेत्यादिना 'पुनरि 'ति समुच्चये, ‘स्वस्थमनाः'-शान्तचित्तः पुरुषः, 'यथा '-येन | प्रकारेण, 'स्वबन्धून् जानाति'-आत्मनो बांधवान् वेत्ति, 'एवम् '-अनया रीत्या, तथेतिभावः, 'मधुमत्तः'-मद्यनोन्मत्तः, 'एषः'-पूर्वोक्तो जनः, न स्वबंधून जानाति, पुष्टिमाह-सन्तीत्यादिना 'एषु'-अस्त्रीस्त्रीदर्शककाचकामलीरोगपीडितमधुमत्तेषु 'किले 'ति निश्चये, 'इन्द्रियाणि'-श्रोत्रादीनि, 'तान्येव सन्ति'-पूर्ववद् वर्तन्ते, तर्हि ' इयान् '-एतावान् , 'विपर्यासः'-विपर्ययः, 'कथम् अभिष्यात् '-केन प्रकारेण भवति ? ॥ ७॥ मूलम्-पुरातनं ज्ञानमथेन्द्रियाणां, सत्यं तथा चाऽऽधुनिकं प्रमाणम् ।
नेदं वरं किन्तु पुरातनं सत्, तान्येव खानीह तु को विशेषः ॥ ८॥ __१. एषु अस्त्रीस्त्रीदर्शक-काचकामलीरोगपीडित-मत्तेषु तान्येव स्वकीयसम्बन्धान्येव तादृशाकाराण्येव स्वस्थानस्थान्येव सन्ति तर्हि कथं भ्रमो भवति? । नास्तिकस्य तु रात्रिरोगमत्ततादयो न वाच्याः स्युर्गृहीतकप्रत्यक्षप्रमाणस्य नास्तिकस्य राज्यादीनां पदार्थानामाकारवर्णगन्धरसस्पर्शादिशून्यानां करतलामलकवत् दर्शयितुमशक्यत्वात् । ततो नास्तिकस्य तेषामेवेन्द्रियाणामप्रमाणता कथं स्यादित्येतदेवाह । २. स्यात् । ३. नास्तिकः पृच्छयते हे नास्तिक ! त्वं ब्रूहि, पुरातनं प्राचीनं शानं यदिन्द्रियाणामभूत् स्त्रियां स्त्रीशानं सितं शानं समीक्ष्य शङ्खग्रहणलक्षणं अमत्तस्य मात्रादिषु तज्वानं इत्येतत्पुरातनं ज्ञानं सत्यं किंवाऽऽधुनिकं
CESS