________________
ॐ
प्रयोदशोऽ माधिकार
तत्वसार
टीका-नास्तिक आह-सत्यमित्यादि ' ही 'ति चरणपूर्ती, 'सत्य 'मिति एतत् पूर्वोक्तं वृत्तं सत्यमस्तीत्यर्थः, यत् 'अवबोधहान्याः'-ज्ञानहानिवशात् , 'रात्रौ'-रात्रिसमये, 'सकलेन्द्रियाणि '-सर्वाणि श्रोत्रादीनि, 'प्रायेण '-बहुधा, 'मुह्यन्ति'-मोहं प्राप्नुवन्ति, ज्ञानरहितानि भवंतीतिभावः, 'तस्मात् '-कारणात् , ' अतद्वस्तुनि'-रामादिमिन्नपदार्थे, 'तद्ग्रहः'-रामादिग्रहणम् , रामादिभ्रान्तिरितिभावः, ' स्यात् '-भवति, परिहारमाह-तदित्यादिना ' तत्'-तर्हि, 'श्रोतसाम्'-इन्द्रियाणाम् , 'चित् '-ज्ञानं, 'सदैव'-सर्वदैव, 'सत्या'-यथा, नास्ति ॥५॥ मूलम्-पुनर्यथा पश्य जनेन नीरुजा, शङ्खः सितोऽस्तीति निरीक्ष्य गृह्यते ।
पुनश्च तेनैव रुंजार्दितेन, स गृह्यते किं न बहूत्थवर्णः ॥ ६ ॥ टीका-विमोहदृष्टान्तरमाह-पुनर्यथेत्यादि 'पुनरि 'ति समुच्चये, ‘पश्य '-अवलोकय, त्वम् , 'यथा'-येन प्रकारेण, 'नीरुजा जनेन'-रोगरहितेन मनुष्येन, शंखः 'सितोऽस्ति'-श्वेतो विद्यते, इति निरीक्ष्य एतत् सम्यक्तया निश्चित्य 'गृह्यते'-आदीयते, 'पुनश्चे 'ति-कालान्तर इत्यर्थः, 'रुजार्दितेन'-काचकामलीरोगपीडितेन, 'तेनैव'-पूर्वोक्तेनैव जनेन, शंखः, 'किं बहूत्थवर्णः '-अनेकवर्णयुक्तः, 'न गृह्यते'-नादीयते, रोगार्दितेन तेनैव जनेन शंखो बहुवर्णो लक्ष्यत एवेतिभावः ॥६॥
१. काचकामलीरोगपीडितेन ॥