________________
69999
900000009e
टीका - आत्मायमित्यादि । अत्र प्रश्नोत्तरत्वेनाभिधानं - हे 'आर्याः पूज्याः. आदरार्थे बहुवचनं, 'किल' इति अनुनये, 'अयम्' उक्तः 'आत्मा' जीवः 'कीदृशोऽस्ति' किं स्वरूपो विद्यते १ अत्रोत्तरमाह नित्य इत्यादिना - नित्यः' अविचलस्वभावः, पुनः कथम्भूतः १ 'विभुः' व्यापकः केवलिसमुद्घातादौ कृत्स्नलोकाकाशव्यापी स्वकायमात्रव्यापी वा पुनः कथम्भूतः ? 'चेतनवान्' चेतनायुक्तः, पुनः कथम्भूतः ? 'अरूपी' रूपरहितः अपुगलधर्मेत्यर्थः । तथा इत्यादि तथाशब्दः समुच्चये, चकारः चरणपूर्त्यर्थः, तु शब्दो विश्लेषणार्थः । ततोऽयमर्थः - आत्मनो भिन्नानि कर्माणि अष्टविधानि कार्याणि । 'कीदृशानि किं रूपाणि संति १ अत्रोतरमाह – जडानीत्यादि । 'जडानि' अचेतनानि चेतनालक्षणविरहितामीत्यर्थः, पुनः कथम्भूतानि १ रूपीणि पुद्गलमयत्वान्मू|र्तानि पुनः कथम्भूतानि १ चया - ऽचयीनि' पूरण - गलनस्वभावकानि ||२||
जीवानामानन्त्यम् - तद्भेदाश्च पृथिव्यादयः
मूलम् - जीवाः 'पृथिव्यादिम सूक्ष्मवृद्ध - निगोदभिन्ना हि भवन्त्यनन्ताः । नानाविधावाप्तसजातियोनि - भिन्नाः समस्ताः किल केवलीक्ष्याः ॥३॥
१ जीवाः कथम्भूताः ? पृथिवी आदिमाऽऽदिर्येषां ते पृथिव्यादिमाः पट्कायिकास्ते च ते सूक्ष्माश्च वृद्धाश्व ते तथा । विशेपणविशेष्यभावस्य विवक्षानिबन्धनत्वात् सूक्ष्मवृद्धशब्दयोर्विशेष्यतयोपादानेन परनिपातोऽतः पृथिव्यादयो द्विधा सूक्ष्मा बादराश्च । निगोदा हि निगोदसञ्ज्ञावन्तस्तेऽपि सूक्ष्मा बादराय । तैर्भेदेभिन्ना ये ते तथा । यद्वात्र सूक्ष्मवृद्धशब्दौ पृथिव्यादिमनिगोदशब्दयोरन्तरस्थितौ डमरुकमणिवत् पृथिव्यादिषु निगोदेषु च योज्यौ ।