SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Jeeeee0000000DeeCeeocedeeo सझेपेण 'विचार' परामर्श विचारणीय विषयमिति यावत् 'समृहे विचारयामि ऊहापोहेन वितर्कयामीति भावः, । कथम्भूतं विचारं ? 'कर्मा-ऽऽत्मपृच्छोत्तरदानपूर्व कर्मा-ऽऽत्मकविषयकप्रश्नोत्तरदानपूर्वम्, किं कृत्वा ? श्रीवर्धनानं प्रणिपन्य, कथम्भूतं | भीवर्धमानं ? 'संशुद्धसिद्धान्तं निर्मलसिद्धान्तयुक्तम् , पुनः कथम्भृतम्, 'अधीशं' जगतःस्वामिनम् , पुनः कथम्भूतम् ? 'इर्दू' ज्ञानाद्यतिशयदीप्तम् , पुनः कथम्भूतं ? 'सत्यं सत्यस्वरूपं सत्यप्रवचनाधिपतिं वा, कस्मै प्रयोजनाय विचार समूहे ? इति आह'स्वविदे' स्वज्ञानाय आत्मज्ञानवृद्धये इति भावः ॥१॥ कर्मात्मनो लक्षणम् मूलम्-आत्मायमार्याः किल कीहशोऽस्ति, 'नित्यो 'विभुश्चेतनवान रूपी। तथा च कर्माणि तु कीरशानि, जडानि रूपीणि 'चयाचयीनि ॥२॥ १ यद्ययात्मा द्रव्यास्तिकनयान्नित्यः पर्यायास्तिकनयादनित्यो देवाद्यन्यतरव्यपदेशलाभात् । परमिह तु सकर्मा-ऽकर्मकरूपसर्वजीवद्रव्यग्रहणोपयोगानित्यत्वेन प्रहणम् । २ व्यापकः केवलिसम्द्वातादौ सर्वलोकाकाशव्यापकत्वात्, अन्यथा तु स्वकायमात्रव्याप्तत्वादपि विमुः। ३चेतनाऽपि द्वेधा-सावरण-निरावरणभेदात् । सावरणशानं यथासम्भवं केवलादर्वागन्यत् सर्वम् । केवलशानं हि निरावरणम् । इह हि चेतनामात्रग्रहणात् सर्वजीवसम्बन्धि शान गृह्यते, तेन सर्वमपि जीवद्रव्य चेतनवदिति चेतनावान जीव उच्यते । ४ रूप सततमस्यास्तीति रूपी सर्वोऽपि पुद्गलधर्मा पदार्थः । न रूपी अरूपी अपुगलधर्मा जीवः । यद्यपि तेजसकार्मणशरीरसङ्गतो जीवः सातिशयशानवता कपितया प्रत्यक्षस्तथापि चर्मचक्षुषां निरतिशयज्ञानवतामप्रत्यक्षलाभप्रायारूपीत्युच्यते । ५ पूरण-गलनस्वभावानि । 100069090999999999999999690
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy