________________
जैनतत्वसार
त्रयोदशोऽHधिकारः
८५॥
टीका-तेषां मंतव्यमाह-त इत्यादिना 'ते'-पूर्वोक्ता नास्तिकाः, 'यत्र'-यस्मिन् , 'पञ्चेन्द्रियाणां विषयोऽस्ति'-श्रोत्रादीनां विषयो विद्यते तत् , 'एकम् '-अद्वितीयम्, 'प्रत्यक्षं प्रमाणं'-प्रत्यक्षनामकं प्रमाणं, 'वृणुते 'स्वीकुर्वन्ति, कथंभूता नास्तिकाः ? ' दृश्यपदार्थसक्ताः, '-दर्शनीयपदार्थेषु तत्पराः, दर्शनीयपदार्थसत्त्वमंतार इतिभावः, पुनश्च कथंभूताः? 'नोइन्द्रियविचारमुक्ताः'-नोइन्द्रियं-मनस्तेनाऽऽदेयाः-ग्रहीतुं योग्या ये पदार्थास्तेषां विचारेण मुक्ताःरहिताः, मनोग्राहवस्तुविचाराक्षमा इतिभावः ॥२॥ मूलम्-पृच्छाऽस्ति तैः सार्धमसौ मुनीनां, चेन्नास्तिकैरिन्द्रियगोचरः श्रितः।
सवस्तु दृश्यं यदि तर्हि वस्तु किं, यन्नेन्द्रियाणां विषयः समेषाम् ॥३॥ टीका-परिहारमाह-पृच्छाऽस्तीत्यादिना 'मुनीनाम्'-मननशीलानाम् , आस्तिकानामितिभावः, 'तैः सार्ध'-नास्तिकैः सह, नास्तिकान प्रतीत्यर्थः, ' असौ'-वक्ष्यमाणा, 'पृच्छास्ति'-प्रश्नो विद्यते, 'चेत् '-यदि, 'नास्तिकैः'' इन्द्रियगोचरः'-इन्द्रियाणां विषयः, 'श्रितः'-अवलम्बितः, मत इत्यर्थः, अस्ति तथा मते यदि 'दृश्यं'-दर्शनीयम् वस्तु, 'सत्'| विद्यमानमस्ति, तर्हि '-सदा, 'तत्'-किं वस्तु अस्ति यत्'-वस्तु, ' समेषाम् '-सर्वेषाम् , 'इन्द्रियाणां'-श्रोत्रादीनां, 'विषयः'-गोचरः, नास्ति ॥३॥
१. आस्तिकानाम् । २ विषयः । ३. यदेव दृश्यं इन्द्रियग्रहणीयं तदेव सत् नास्तिकानां नाऽन्यत् । तत्र पञ्चानामपीन्द्रियाणां कस्मिन् वस्तुनि नास्तिकानां विषयोऽस्ति तद् वस्तु ते उद्गृणन्तु तबाहुनास्तिका रामादिके ।