________________
अथ त्रयोदशोऽधिकारः
इन्द्रियमात्रप्रत्यक्षतास्वीकरणे दोषान् पञ्चविंशतिश्लोकैराह
मूलम् - मुनीश ! केचिद् भुवि नास्तिका ये, न पुण्यपापे नरकं न मोक्षम् । स्वर्गं न च प्रेत्यभवं वदन्ति, को नाम तर्कः खलु तैः श्रितोऽस्ति ? ॥ १ ॥
टीका - इदानीं नास्तिकमतं प्रदर्श्य तत्परिहर्तुकाम आह- मुनीशेत्यादि ' हे मुनीश ! ' - मुनिराज !, ' भुवि - पृथिव्याम्, संसार इति यावत्, 'ये केचित् ' - केऽपि पुरुषाः, नास्तिकाः सन्ति ते, 'पुण्यपापे ' - धर्माधर्मौ, 'न वदन्ति'न कथयन्ति, न मन्यन्त इतिभावः, एवमग्रेऽपि बोध्यं, नरकं न वदन्ति, 'मोक्षम् ' - मुक्तिं न वदन्ति, 'स्वर्ग' - स्वर्गलोकं न वदन्ति च पुनः, ' प्रेत्यभवं ' - पुनर्जन्म न वदन्ति, 'खल्वि 'ति निश्चये, 'नामे 'ति प्रसिद्धौ वितर्के वा, 'तैः - नास्तिकैः, ' तर्क : ' - ऊहः, अपूर्वोत्प्रेक्षणमितिभावः, ' श्रितोऽस्ति ' - मतो भवति ॥ १ ॥
•
मूलम् - ते नास्तिका दृश्यपदार्थसक्ता, नोइन्द्रियादेयविचारमुक्ताः । प्रत्यक्षमेकं वृणुते प्रमाणं पञ्चेन्द्रियाणां विषयोऽस्ति यत्र ॥ २ ॥
१. प्रत्यक्षे ।
१५