________________
द्वादशोऽ
तत्त्वसार
धिकार
मूलम्-इत्थं विना प्रेरकमत्र कर्मणां. भुक्ताविहोदाहरणान्यनेकशः।
विचारितान्येव विचारचञ्चुरै-स्तदवाकूप्रमाणं किल पारमेश्वरी ॥५९॥ टीका-फलितपूर्वकं निगमनमाह-'इत्थम्'-अनया रीत्या, 'प्रेरकं विना'-प्रेरणकर्तारमंतरेणैव, कर्मणां, 'भुक्तौ'भोगे, 'विचारचञ्चरै'-विचारदक्षैः, विद्वद्भिः, 'अनेकशः'-अनेकानि, 'उदाहरणानि'-दृष्टान्तकथनानि, विचारितान्येव'विमर्श नीतान्येव, सन्ति, 'तत् '-तस्मात् कारणात् , 'किले 'ति निश्चये, 'पारमेश्वरी वाक्'-परमेश्वरसंबंधिनी वाणी, 'प्रमाणं'-प्रमाणभूताऽस्ति ॥ ५९॥
4
परप्रेरणारहितकर्मभोगोक्तिलेशो द्वादशोऽधिकारः
।॥८४॥