________________
मूलम्-सिद्धात्मनां सिद्धतया दशात्रयी, न कर्मणां तत्कृतपूर्वनाशतः।
भुक्ताऽप्यवस्था भवदेषु केवलि-भवावसानं न तदत्र कापि सा ॥५७॥ टीका-अत्र विशेषमाह-सिद्धात्मनामित्यादिना 'सिद्धतया'-सिद्धभावेन, सिद्धिंगतत्वेनेति यावत् ‘सिद्धात्मनां - सिद्धजीवानां, 'कर्मणां' 'दशात्रयी-तिस्रोऽवस्था न भवति, कुतः १ इत्याह-तत्कृतेत्यादि 'तत्कृतपूर्वनाशतः'स्वकृतपूर्वनाशात, तर्हि भुक्तावस्था सर्वदा तेषु स्यादित्यपि परिहर्तुमाह-भुक्ताऽपीत्यादि ‘भवदेषु'-भवं नंति खण्डयंतीति भवदास्तेषु, सिद्धेष्वित्यर्थः, 'भुक्ताऽप्यवस्था'-भुक्तदशापि, 'केवलिभवावसानं '-केवलज्ञानप्राप्तिभावपर्यन्तम् भवति, 'तत्'-तस्मात् कारणात् , 'अत्र '-सिद्धेषु, 'सा'-भुक्तावस्था, 'काऽपि'-काचित् न भवति ॥ ५७ ॥ मूलम्-मया विचारोऽयमवाचि कर्मणा-मजानता लोकगतैनिदर्शनैः।
सामान्यलोकप्रतिबोधनाय, ज्ञेयः प्रवीणैस्तु पुराणयुक्तिभिः ॥५८॥ टीका-उक्तविषयमुपसंहर्तुमाह-मयेत्यादि 'सामान्यलोकप्रतिबोधनाय '-साधारणज्ञानाय, 'लोकगतैनिदर्शनैःलोकप्रसिद्धैदृष्टान्तैः, 'अजानता'-विज्ञानरहितेन, 'मया''अयं'-पूर्वोक्तः, कर्मणाम् 'विचारः'-विमर्शः, 'अवाचि'उक्तः, 'प्रवीणैः'-दक्षैः पुरुषः, 'तु' शब्दो विशेषार्थः, 'पुराणयुक्तिभिः'-प्राचीनाभियुक्तिभिः, 'अयं'-कर्मणां विचारः, "ज्ञेयः'-अवबोध्या, निश्चेतव्य इतिभावः ॥ ५८॥
१. लोकप्रसिद्धैः।