SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ द्वादशोऽधिकार तस्वसार 1८३॥ पृथिव्याः, 'घनविंदुवृन्दवदस्ति'-मेघबिन्दुसमूह इव भवति, चिरस्थायि भवतीतिभावः, 'तु'-परन्तु, 'यके'-ये, 'कैवल्यभाजः'-केवलस्य भावः, कैवल्यं तद् भाजस्तेन युक्तः केवलज्ञानिन इतिभावः, 'महान्तः'-महात्मनः, योगिन इति यावत् भवन्ति, 'तेषाम् '-पूर्वोक्तानाम् महात्मनाम् , 'तु' शब्दो विशेषार्थः, कर्माणि यद्यपि, 'शिलापवृष्टिवत् '-पाषाणाऽग्रभागपतितवृष्टिरिव, ' अल्पस्थितीन्येव '-अल्पकालस्थायीन्येव भवन्ति, 'तथाऽपि'-तदपि, 'तत्रापि'-केवलिसत्ककर्मसत्तायामपि, 'तत्'-पूर्वोक्तं, 'दशात्रयं'-तिस्रोऽवस्थाः, भुक्त-भोग्य-भुज्यमानरूपास्तिस्रो दशा इतिभावः, 'तु' शब्दो निश्चये, गवेषणीयं'-अन्वेषणीयम् ज्ञातव्यमितिभावः ॥ ५४-५५ ॥ मूलम् सर्वत्र कादिपरप्रणोदनां, विनैव द्रव्यांदिचतुष्टयस्य । तादृस्वभावादिह कर्मणां त्रयी, भुक्तादिकाऽसौ भविमुक्तंजीवगा ॥५६॥ टीका-उक्तविषयमेव स्पष्टयितुमाह-सर्वत्रेत्यादि कादिपरप्रणोदनां विनैव'-कादेरन्यस्य प्रेरणामंतरेणैव, 'द्रव्यादिचतुष्टयस्य'-द्रव्य-क्षेत्र-काल-भावानां, ' तादृक्स्वभावात् '-तथाविधस्वभाववशात् , 'इह'-अत्र, 'सर्वत्र'-सर्वजीवेषु, 'भविमुक्तजीवगा'-संसारिकेवलिजीवसंबंधिनी, 'असौ'-पूर्वोक्ता, 'भुक्तादिका'-भुक्त-भोग्य-भुज्यमानरूपा, 'कर्मणां त्रयी'-कर्मत्रिविधता भवति ।। ५६॥ १ द्रव्यक्षेत्रकालभावरूपस्य । २. संसारिकेवलिजीवसम्बन्धिनी । 54
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy