________________
कर्मस्वरूपं ज्ञापयितुम् शक्त इतिभावः ॥ ५० ॥ मलम-ईग्विधं कर्म कियद्विधं स्या-त्रिधेति तर्तिक शृणु भण्यमानम् ।
भुक्तं च भोग्यं परिभुज्यमानं, शुभाशुभं सर्वमिदं सक्षम् ॥५१॥ टीका-चतर्भडिकया भोक्तव्यं कर्म कतिविधमिति प्रश्नयति-वचनद्वारेण दर्शयितुमाह-ईदृग्विधमित्यादि 'ईदृग्विधम'चत किया भोक्तव्यं, 'कर्म कियद्विधं स्यात् ' इति कतिप्रकारमस्तीत्यर्थः, अस्योत्तरमाह-त्रिधेतीति पूर्वोक्तं कर्म त्रिप्रकारमस्तीतिभावः, प्रकारान् ज्ञातुमाह-तत्किमिति 'तत्'-त्रिप्रकारकत्वं, किमस्तीतिभावः, अस्योत्तरमाह-शुण्वित्यादिना 'मयाभण्यमानं '-कथ्यमानं, 'शृणु'-आकर्णय त्वम् , 'इदं '-पूर्वोक्तम् , 'सर्व'-सकलं, 'शुभाशुभं'-शुभमशुभं
च कर्म, 'सदृक्षं'-समानत्वेन, “भुक्तं'-भोगमानीतं, 'भोग्यं '-भोक्तुमर्हम् , 'च'-पुनः, 'परिभुज्यमानं - | भोगं नीयमानं भवति, सर्वमपि शुभाशुभं कर्म भुक्त-भोग्य-परिभुज्यमानभेदैविप्रकारकमस्तीतिभावः ॥५१॥
कर्मणो भुक्तभोक्ष्यमाणभुज्यमानामवस्थां नवभिः श्लोकैराहमूलम्-किंवद्यथा वारिदबिन्दुवृन्द, वसुन्धरायां पतितं प्रशुष्कम् ।
तभुक्तवत्तत्र च भोग्यवर्तिक, यावत्पतिष्यत्परिशोष्यमस्ति ॥५२॥ १. यश्चतुर्भङ्गया भोक्तव्यं कर्म तत्कतिप्रकारं स्यादित्याह । २. सर्व शुभं वाऽशुभं वा कर्म त्रिधा स्यात् भुक्तं भोग्य भुज्यमानं चेति।