SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार ॥ ८१ ॥ ' अत्र ' - अस्मिन् संसारे, ' प्रगे मे भविता ' - प्रातःकाले मम भविष्यति, प्रातरिदं मम कार्ये समायास्यतीतिभावः, ' इति 'एतद्, ' अवेत्य ' - ज्ञात्वा, ' केनाऽपि ' - केनचिञ्जनेन, 'च' - शब्दचरणपूर्ती, ' किंचित् ' - किमपि वस्तु, ' त्रातं 'रक्षितम्, वस्तुरक्षणे हेतुमाह - द्रव्यादीत्यादिना 'द्रव्यादीनां ' - द्रव्य - क्षेत्र - काल - भावानाम्, 'कालादीनाम् ' -कालस्वभाव-नियति- पूर्वकृत - पुरुषकाराणां, ' तथाविधेन ' - तादृशा, 'ओजसा ' - शक्त्या, 'अत्यर्थम् ' - अतिशयेन, 'तु ' शब्दश्वरणपूत, ' तेन ' - वस्तुरक्षित्रा जनेन, ' तत्र दिने ' - तस्मिन्नहनि यस्मिन्नहनि तद् वस्तु रक्षितम् तस्मिन् दिन इति, 'तत्' - पूर्वोक्तम् वस्तु, न प्रभुक्तं ' -न भोगमानीतम्, ' तत् ' - तस्मात् कारणात्, ' ही 'ति निश्रये, 'तत्'पूर्वोक्तम् वस्तु, ' अन्यदा' - अन्यस्मिन् काले, अन्यदिन इतिभावः, ' भोक्तव्यं ' - भोगाहम् भवति, दान्तविषयमाहएतादृगित्यादिना 'इदं ' - पूर्वोक्तम् कर्म, अपि, 'एतादृक् तु ' - एतादृशमेव, 'तु' शब्द एवकारार्थोऽस्ति ॥ ४७–४९ ॥ मूलम् — एवं चतुर्भङ्गिकया स्वकर्म, भोग्यं भवेदाप्तवचः प्रमाणात् । कर्मस्वरूपं प्रतिवेदितुं नो, क्षमं विना केवलिनो यथार्थम् ॥ ५० ॥ टीका - उक्तविषयमुपसंहर्तुमाह - एवमित्यादि ' एवम् ' - अन्या रीत्या, ' आप्तवचः प्रमाणात् ' - यथार्थवक्तृवाच्यरूपप्रमाणेन, ' चतुर्भङ्गिकया' - चतुर्विधस्वरूपभेदेन, ' स्वकर्म ' - आत्मकृतं कर्म, ' भोग्यं भवेत् ' - भोगार्हम् भवति, किमि - त्याप्तवचः १ प्रमाणादेवेत्याह- कर्मस्वरूपमित्यादि ' केवलिनो विना ' - केवलज्ञानिनोऽतरेण, 'यथार्थम् ' - सत्यम्, कर्मस्वरूपम् ’–कर्मलक्षणम्, ‘प्रतिवेदितुं ' - प्रज्ञापयितुं, 'नो क्षमम् ' - न योग्यमस्ति, केवलिनोऽतिरिच्य नाऽन्यः कश्चित् द्वादशोऽधिकारः ॥ ८१ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy