SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मूलम् — येनाऽत्र जन्मे व्रतमुग्रमाश्रितं, प्रागेव तस्मात्प्रतिबद्धमायुः । नृदेवपश्वादिभवोत्थमल्पं, तदा ततोऽन्यत्र भवेद्भवेऽस्य तत् ॥ ४७ ॥ दीर्घायुषा भोज्यमहो महत्फलं, द्रव्यादिसामय्यतथोदयाच्च । यथाऽत्र केनाsपि च वस्तु किश्चित्त्रातं प्रगे मे भवितेत्यवेत्य ॥ ४८ ॥ द्रव्यादिकालादितथाविधौजसा - त्यर्थं तु तद्वस्तु न तेन तत्र । दिने प्रभुक्तं हि ततोऽन्यदा तद्भोक्तव्यमेता हैगिदं तु कर्म ॥ ४९ ॥ टीका - चतुर्थभेदस्योदाहरणमभिधातुकाम आह-येनाऽत्रेत्यादि ' येन '- जनेन, ' अत्र जन्मे ' - अस्मिन् भवे, 'उग्रं 'तीक्ष्णं, ‘व्रतम्' ‘आश्रितम् ' - अवलम्बितम्, कृतमिति यावत्, ' तस्मात् ' - उग्रव्रताश्रयणात्, ' प्रागेव' - पूर्वमेव, 'नृदेवपश्वादिभवोत्थम् '–मनुष्यदेवतिर्यग्जन्मोत्पन्नम् ' प्रतिबद्धम् ' - बंधनं नीतम्, ' अल्पं ' - स्तोकम् ' आयु: ' -जीवनकाल:, ' अस्य' - कृतोग्रव्रतस्य, 'तत् ' - तस्मात्, 'अन्यत्रभवे ' - अन्यस्मिन् जन्मनि, भवति, ' तदा' - तस्मिन् काले, अन्यत्र भव इत्यर्थः, ' अहो !' इति विस्मये, 'तत्' - तस्मात् कारणात्, कृतोग्रव्रतप्रभावादित्यर्थः, 'च' - पुनः, 'द्रव्यादिसामग्र्यतथोदयात् '-द्रव्यक्षेत्रकालभावरूपसामग्रीसमवायस्य तथाविधोदयवशात्, 'दीर्घायुषा ' - महता जीवनकालेन सह, महत् फलं '- बृहत्फलं, ' भाज्यम् ' - भोगार्हम् भवति, एतदेवोदाहरणेन स्पष्टयति-यथात्रेत्यादिना 'यथा' - येन प्रकारेण, १. परत्र कृतं कर्म परत्र यद्वेद्यते तत् सर्वमिदमुक्तम् । "
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy