SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार द्वादशोऽधिकार 4 4 ॥८ ॥ 35 +4+4+ 39 | वियोगयोगः'-दारिद्यम्-निर्धनता मात्रादीनां वियोगः-जनन्यादीनां विरहस्तयोर्योगः-प्राप्तिर्भवति, 'अथे "ति-अनन्तरे, 'जन्मकुण्डलीमध्ये '-जन्मपत्रिकायाम् , ' अस्य'-पूर्वोक्तस्य पुत्रस्य, 'ग्रहाः'-सूर्यादयोऽपि, 'न शस्ताः'-न प्रशंसनीया भवन्ति, अतो व्यतिरेकमाह-अन्यत्रेत्यादिना तिथे "ति समुच्चये, 'तु' शब्दो व्यतिरेकप्रदर्शनार्थः, 'अन्यत्र'अन्यस्मिन् पुत्रे, 'प्रजाते '-उत्पन्ने सति, 'सुकर्मतः '-शोभनकर्मणः, पूर्वकृतशुभकर्मवशादितिभावः, 'सम्पत्तिमात्रादिसुखं '-ऐश्वर्य जनन्यादीनां च सौख्यम् , तथा 'प्रभुत्वं -स्वामित्वम् भवति, 'तु' शब्दश्चरणपूर्ती, 'अस्य'-पूर्वोक्त| स्य, 'अन्यस्य '-पुत्रस्य, 'जन्मपत्रिकामध्ये '-जन्मकुंडल्या, 'ग्रहाः'-सूर्यादयोऽपि, 'विशिष्टाः'-उत्कृष्टाः, प्रशस्ता इतिभावः, 'पतिताः'-वर्तमाना भवंति ॥ ४४-४५ ॥ मूलम्-चतुर्थभेदस्तु परत्र कर्म, कृतं परत्रैव फलप्रदं भवेत् । यवत्र जन्मे विहितं तृतीय-भवे विधत्ते फलमात्मगामुकम् ॥ ४६ ॥ टीका-चतुर्थमेदं दर्शयितुमाह-चतुर्थमेदस्त्वित्यादि चतुर्थभेदस्त्वयमस्तीतिभावः, यत् 'परत्र'-परलोके, 'कृतं'-विहितम् , कर्म, 'परत्रैच'-परलोक एव, ‘फलप्रदं भवेत् '-फलदायकं स्यात् , यत् 'अत्र'-अस्मिन् , 'जन्मे'-भवे, जन्मशब्दोऽदंतोऽपि कैश्चिन्मतः, 'विहितम्'-कृतं कर्म, 'तृतीयभवे'-तृतीये जन्मनि, 'आत्मगामुकम्'आत्मभावि फलं, 'विधत्ते'-करोति ॥ ४६॥ १. जन्मशब्दोऽदन्तोऽप्यस्ति । ॥ ८ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy