SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मूलम्-सत्या यथा सत्वमिहाश्रितं पुन:, शुरेण शौर्य परजन्मभोगदम् । तृतीयभेदस्तु परत्र कर्म, निर्मातमत्रासुखसौख्यदायि ॥४३॥ टीका-द्वितीयभेदस्यैव दृष्टान्तरमाह-सत्या इत्यादिना ' यथा'-येन प्रकारेण, ' इह '-अस्मिन् संसारे, 'सत्या'पतिव्रतया, 'आश्रितम् -अवलंबितम् , आचरितमितिभावा, 'सत्त्वं'-पातिव्रत्यम्, 'पुनरि'ति समुच्चये, 'शूरेण'| वीरपुरुषेण, आश्रितम्, 'शौर्य'-वीरत्वम्, 'परजन्मभोगदं'-परलोके फलदायकम् भवति, तृतीयं भेदं दर्शयितुमाहतृतीयमेदस्त्वित्यादि 'तृतीयभेदस्त्वि 'ति-तृतीयो मेदस्त्वेष विद्यत इत्यर्थः, यत् 'परत्र'-परलोके, 'निर्मातं'-कृतम, कर्म, 'अत्र'-अस्मिन् भवे, 'असुखसौख्यदायि'-दुःखसुखदायकम् भवति ॥ ४३ ॥ मूलम्-एकत्र पुत्रे तु तथा प्रसूते, दारिद्यमात्रादिवियोगयोगः। ' अस्य ग्रहा अप्यथ जन्मकुण्डली-मध्ये न शस्ताः कृतकर्मयोगात् ॥४४॥ अन्यत्र पुत्रे तु तथा प्रजाते, सम्पत्तिमातादिसुखं प्रभुत्वम् ।। अपि ग्रहा अस्य तु जन्मपत्रिका-मध्ये विशिष्टाः पतिताः सुकर्मतः ॥४५॥ टीका-अत्रैव दृष्टान्तद्वारा पुष्टिमाह-एकत्रेत्यादिना 'तथेति-तद्यथेत्यर्थः, 'एकत्र'-एकस्मिन् , 'पुत्र-तनये, 'प्रसूतेजाते सति, 'तु' शब्दो वक्ष्यमाणवाक्यविश्लेषद्योतकः, ‘कृतकर्मयोगात् '-विहितस्य कर्मणः संबंधेन, 'दारियमात्रादि १. एकस्मिन् । २. प्राप्तिः। जाते सति, तारा पुष्टिमाह-एकत्रेत्यामध्ये विशिष्टाः पर
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy