________________
जैन
तवसार
॥ ७९ ॥
शब्दवरणपूत, ' इह ' - अस्मिन्नेव संसारे, 'उदयेत् ' - उदयं गच्छेत्, उत्पूर्वस्यायतेः कदाचित्परस्मैपदत्वमपि भवति, अस्यैवोदाहरणमाह- अहो इत्यादिना 'अहो ' इति विस्मये, चरणपूर्ती वा, ' यथा ' - येन प्रकारेण, 'इह भुवि ' - अस्मिन् संसारे, ' सिद्धाय ' - सिद्धपुरुषाय, 'साधुजनाय ' -सत्पुरुषाय, ' वा ' - अथवा, 'भूभृते ' - राज्ञे, 'स्वल्पमपि ' - स्तोकमपि, ' प्रदत्तं ' - वितीर्णम्, वस्तु, ' श्रियै '-लक्ष्म्यै, सम्पत्कारणाय भवतीतिभावः, पुनरिति व्यतिरेकदर्शने 'चौर्यादि ' - स्तेयादिकम् ' अशस्तम् ' - अशुभं कर्म, ' अत्र ' - अस्मिन्संसारे, ' नाशकृत् ' -नाशकारकम् भवति ॥ ४०-४१ ॥
मूलम् - भेदो द्वितीयोऽकृतं परत्र, कर्मोदयेदत्र यथा प्रशस्यम् । तपोव्रतायाचरितं सुरत्वा-दिदं तदन्यन्नरकादिदायि ॥ ४२ ॥
टीका - कर्मणो द्वितीयं भेदं दर्शयितुमाह - मेद इत्यादि ' द्वितीयो मेदः ' -द्वितीयोऽयं मेदोऽस्तीत्यर्थः यत्, ' अत्र ' - अस्मिन् संसारे, ' कृतं ' -विहितं कर्म, ' परत्र' - परलोके, ' उदयेत् ' -उदयं गच्छेत्, परस्मैपदभावे हेतुः पूर्वश्लोके निगदितः, अस्योदाहरणमाह - अत्रेत्यादिना ' यथा ' - येन प्रकारेण, ' अत्र ' - अस्मिन् संसारे, ' आचरितं ' - कृतं, ' तपोव्रतादि ' - तपश्चर्यात्रतादिकं, ' प्रशस्यं ' - शुभं कर्म, 'सुरत्वादिदं ' - देवत्वादिप्रदायकं भवति, तदन्यत् ' - तस्माद् भिन्नं, तपोव्रतादिप्रशस्यकर्मणो भिन्नमशुभं कर्मेत्यर्थः, 'नरकादिदायि ' - नरकादिप्रदायकम् भवति ॥ ४२ ॥
१२. कर्म ।
द्वादशोऽधिकारः
॥ ७९ ॥