SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मूलम्-कर्मेदमाहुः कतिधा बुधाः सुधा-किरा गिरा त्वं शृणु दक्षिण ! क्षणम् । भगीचतुष्कन चतुर्विध त-तत्राऽयमन्त्राऽऽचरितं त्विहोदयेत् ॥ ४० ॥ कर्मण उदये आगमनभेदान् एकादशश्लोकैराहशस्तं तथाऽशस्तमहो यथा भुवि, सिद्धाय वा साधुजनाय भूभृते । श्रिया इह स्वल्पमपि प्रदत्तं, चौर्याद्यशस्तं पुनरत्र नाशकृत् ॥४१॥ टीका-इदानीम् कर्ममेदान् दर्शयितुमाह-कर्मेदमित्यादि 'बुधाः'-विद्वांसः, 'सुधाकिरा'-अमृतस्राविण्या, 'गिरा'वाण्या, 'इदम्'-प्रसिद्धम् कर्म, 'कतिधा'-कतिप्रकारम् , 'आहुः'-कथयन्ति, अस्योत्तरमाह-त्वमित्यादिना 'हे दक्षिण - | हे चतुर !, त्वं 'क्षणं'-क्षणकालम् , 'शृणु'-आकर्णय, 'तत् '-कर्म, 'भङ्गीचतुष्केन'-भंगीनां चतुष्टयेन, चतुर्विधस्वरूपभेदैरित्यर्थः, 'चतुर्विधं '-चतुःप्रकारमस्ति, तेषु प्रथम दर्शयितुमाह-तत्राऽऽद्यमित्यादि 'तत्र'-तेषु, 'आद्यं '-प्रथम, 'शस्तं -शुभम् , 'तथे' ति समुच्चये, 'अशस्तम्'-अशुभम् कर्म, 'अत्र'-अस्मिन् संसारे, 'आचरितम् '-कृतम्, 'तु' १. अमृतस्राविण्या। २. वाण्या । ३. इदं कर्मसिद्धान्ते चतुर्थोक्तं । यथा इह लोए कडा कम्मा इह लोए वेज्जन्ते, ल इह लोए कडा कम्मा परलोए वेजन्ते, परलोए कडा कम्मा इह लोए वेज्जन्ते, परलोए कडा कम्मा परलोए वेजन्ते इति चतुर्भङ्गी उक्ता साऽत्र यथा संवाच्या । ४. कर्म । ५. कृतम् । ६. अत्रैवोदयं यायात् । ७. सिद्धपुरुषाय रससिद्धादिमहापुरुषाय । ८. राजे। ९ लक्ष्म्यै । ॐॐॐॐॐॐॐ4545 १४
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy