________________
%ES
द्वादशोऽ| धिकारः
तत्त्वसार
॥ ७८॥
CRACKASA%ARRRR*
मूलम्-यथा यथा वा चरितं पुरात्मना, फलं ग्रहाणामिह भुज्यते तथा ।
यावत्स्वसीमा सहजाद्दशान्त-दर्शादियुक्तं परिणोदकं विना ॥ ३८ ॥ कर्माणि कर्मान्तरितानि चैवं, यथात्मनानेन ननु क्रियन्ते ।
स्वकालमेषां परिपाकयुक्तं, भुङ्क्ते तथात्मा फलमीरकं विना ॥ ३९ ॥ ___टीका-अत्रैव श्लोकद्वयेन फलितमाह-यथेत्यादिना 'वे' ति निश्चये, 'पुरा'-पूर्वकाले, 'आत्मना'-जीवेन, 'यथा यथा चरितं'-यादृशं यादृशं कर्म कृतं, 'तथा'-तेनैव प्रकारेण, ' इह '-अस्मिन् संसारे, 'स्वसीमां यावत् - स्वमर्यादापर्यन्तम् , 'परिणोदकं विना'-प्रेरकमंतरेणैव, 'सहजात्'-स्वभावात् , 'ग्रहाणाम् '-सूर्यादीनाम् , 'फलं भुज्यते'भोगं नीयते, कथंभूतं फलं ? 'दशान्तदर्शादियुक्तम् '-मुख्यदशा चान्तर्दशादिभिर्युक्तम् , फलितमाह-कर्माणीत्यादिना 'एवम् '-अनया रीत्या, 'च' शब्दश्चरणपूत्तौं, ' नन्वि 'ति निश्चये, 'अनेन'-पूर्वोक्तेन, 'आत्मना'-जीवेन, 'यथा'येन प्रकारेण यादृशीतिभावः, 'कर्मान्तरितानि'-अन्यकर्मभिर्व्यवहितानि कर्माणि स्वसमयानुकूलं, 'एषां'-कृतकर्मणां, 'परिपाकयुक्तं'-विपाकमिश्रितं फलं, 'आत्मा'-जीवः, 'भुक्त'-भोगं नयति ॥ ३८-३९ ॥
१. प्रेरकम् ।
-545445CASk
॥ ७८॥