SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ एवं ज्वराणां परिपाककालः, स्वकः स्वकोऽयं पृथगेष उक्तः । यथा तथैषां कृतकर्मणामपि पृथक् स्वकीयः स्थितिकाल एयः ॥ ३७ ॥ " टीका - अत्रैव दृष्टान्तरमाह - ताप इत्यादिना ' यथा ' -येन प्रकारेण, ' पित्तभवः ' - पित्तादुत्पन्नः, पित्तप्रकोपाजात इतिभावः, ' तापः '-ज्वरः, 'दशाहं ' - दशवासरपर्यन्तं, 'तिष्ठति'- स्थिति करोति, 'सश्लेष्मिकः' - श्लेष्मणा - कफेन सहितः, श्लेष्मकोपाजात इतिभावः, ' द्वादशरात्रमात्रम् ' - केवलं द्वादशवासरपर्यन्तम् तिष्ठति, ' सवातिकः ' -वातेन सहितः, वातकोपाजात इतिभावः, सप्तरात्रम् ' - सप्तवासरपर्यन्तम् तिष्ठति, तथा 6 त्रिदोषिक : ' -वात-पित्त-कफरू पत्रिदोषेण जातः सान्निपातक इतिभावः, 'पञ्चदशाहमानं '- पंचदशवासरपर्यन्तम् तिष्ठति, फलितमाह - एवमित्यादिना 'एवम् 'अनया रीत्या, 'ज्वराणाम् ' - तापानाम्, 'एषः '- पूर्वोक्तः, ' स्वकः स्वकः स्वकीयः स्वकीय:, ' परिपाककालः 'परिपचनसमयोऽस्ति, दान्ते घटनामाह-यथेत्यादिना ' यथा ' - येन प्रकारेण, 'अयम्-ज्वराणां परिपाकः, 'पृथगुक्तः ' - पृथक् पृथक् कथितोऽस्ति, ' तथा ' - तेनैव प्रकारेण, ' एषां ' - पूर्वोक्तानाम्, 'कृतकर्मणामपि '-विहितानां कर्मणामपि, ' स्वकीय: ' - आत्मीयः, ' स्थितिकाल: '- स्थितिसमयः, 'पृथग् - विभिन्नः, 'एष्यः ' - वाञ्छनीयः, मन्तव्य इतिभावः ॥ ३६-३७ ॥ १. वाञ्छनीयः ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy