________________
द्वादशोऽ
तत्त्वसार
धिकार
*
*
***
***4444
टीका-अत्रैव दृष्टान्तरः पुष्टिमाह-यक्ष्माक्षीत्यादिना 'यक्ष्मा'-क्षयरोगः, 'अक्षिबिन्दुः'-नेत्रस्य रोगविशेषः, 'उद्धृतपक्षघातः'-उग्रः पक्षाघातनामको रोगः, तथा अर्धाङ्गेत्यादि 'अर्धाङ्गः'-वायुजन्यो रोगविशेषः, 'शीताङ्गः'-शीताङ्गनामा रोगो यस्मिन्नंगस्य शीतीभावः सञ्जायते, इत्यादयः, 'आमयाः'-रोगाः, ये सन्ति, 'वैद्याः'-चिकित्सकाः, 'विदा'-ज्ञानेन, 'सहस्रघः'-सहस्रदिवसः, 'एषां '-यक्ष्माद्यामयानाम् , 'परिपाकं '-विपाकम् , परिणाममिति यावत् , ' वदन्ति'-कथयन्ति, कथंभृता वैद्याः ? 'विदितागमाः '-ज्ञातशास्त्राः, शास्त्रज्ञाता इतिभावः, दार्टान्ते योजनामाह-इत्थमित्यादिना 'इत्थम् '-अनेन प्रकारेण, 'ही'ति चरणपूत्तौं, 'इह'-अस्मिन् संसारे, 'अत्र'कर्मणां विपाकसमये, 'यदि 'ति निश्चये, अव्ययानामनेकार्थत्वात् , ' स्वयं'-स्वत एव, परप्रेरणं विना, अन्यस्य प्रेरणमंतरेणैव परावबोधनार्थत्वात् , कथनावव्यक्तायां नात्र पुनरुक्तिदोषशंकावकाशः, 'स्वकालं समवाप्य'-स्वसमयं प्राप्य, केषांचित् कर्मणाम् , ' परिपाकं'-विपाकम् , ते 'पण्डिताः'-विद्वांसः, 'पठन्ति'-अधीयते, कथयन्तीतिभावः, के पण्डिता इत्याह-सैद्धान्तिकेत्यादिना ये सैद्धान्तिकसिंधुराः'-सैद्धान्तिकेषु हस्तिन इव,सिद्धान्तवेतृषु धुरंधरा इतिभावोऽस्ति ॥३४-३५॥
मूलम्-तापो यथा पित्तभवो दशाहं, सश्लेष्मिको द्वादशरात्रमात्रम् ।
सातिकस्तिष्ठति सप्तरात्रं, दोषिकः पञ्चदशाहमानम् ॥३६॥
*
*
*
१-२-३. तापः।
॥ ७७॥
*