SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ स्मगानि'-स्वात्मस्थितानि कर्माणि, 'स्वकं स्वकं कालमवाप्य'-स्त्रं स्वं समयं प्राप्य, 'सत्वरम् -शीघ्रमेव, 'परप्रेरणं विना'-अन्यस्य प्रेरणमंतरेण, 'स्वयं'-स्वतः, अज्ञबोधनार्थत्वात् नाऽत्र पुनरुक्तिदोषः, 'एतं'-प्रसिद्धम् , 'आत्मकम्'-आत्मानं, 'दुःखं'-क्लेशं, ' अथो अपि' शब्दो समुच्चये, 'सुखं '-सौख्यं, 'नयन्ति'-प्रापयन्ति ॥ २९-३२ ॥ मूलम्-तथा पुनः शीतलिकादिवाला-मयोद्भवा तप्तिरधिश्रयेत्तनुम् । - षण्मासमात्मानमिमं तथैव, श्रयन्ति कर्माणि समेत्य यत्स्वयम् ॥ ३३ ॥ टीका-परिपाककालविषये सदृष्टान्तमाह-तथा पुनरित्यादि तथा' शब्दः 'पुनः' शब्दश्च समुच्चये, 'शीतलिकादिवालामयोद्भवा'-शीतलादयो ये वालामया-वालरोगास्तेभ्य उद्भवः-उत्पत्तिर्यस्याः सा, तथा 'तप्तिः'-उष्णता, 'षण्मासं'षण्मासपर्यन्तं, 'तनुं'-शरीरम् , ' अधिश्रयेत् '-आश्रयति, तथैव '-तेनैव प्रकारेण, 'यदि 'ति निश्चये, 'कर्माणि' | 'समेत्य '-प्राप्य, 'स्वयं'-स्वत एव, प्रेरकमंतरेणैवेतिभावः, 'इमं'-पूर्वोक्तमात्मानं जीवं, 'श्रयन्ति'-आश्रयन्ति ॥३३॥ मूलम्-यक्ष्माक्षिबिन्दूद्धतपक्षघाता, अर्धाङ्गशीताङ्गमुखामया ये। सहस्रघनैः परिपाकमेषां, वदन्ति वैद्या विदितागमा विदा ॥ ३४ ॥ इत्थं हि केषामिह कर्मणां परी-पाकं स्वकालं समवाप्य यत्स्वयम् । विना परप्रेरणमत्र पण्डिताः, पठन्ति सैद्धान्तिकसिन्धुरा ये ॥ ३५ ॥ १. आदिशब्दात् बोदरिकाऽच्छपिटकादयः । २. क्षयरोग । ३. रोगाः । ४. शानेन ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy