________________
द्वादशोऽधिकार
तत्त्वसार
निपत्यमानं परिशुष्यमाणं, यावद्यदेतत्परिभुज्यमानवत् ।
ग्राह्यो गृहीतः परिगृह्यमाणो, यथा गुडो वा किल कर्म तदवत् ॥५३॥ टीका-स्वरूपं ज्ञापयितुम् पूर्वक्रमेणाऽऽह-किंवदित्यादि ‘किंवदिति किमिव तत्कर्म भवतीतिभावः, अस्योत्तरमाहयथेत्यादिना ' यथा'-येन प्रकारेण, 'वसुंधरायां'-पृथिव्यां, 'पतितं'-पतनं प्राप्तं सत् , 'वारिदबिंदुव॒दं '-मेघविंदुसमूहः, 'प्रशुष्कम् '-शोषं प्राप्तं भवति, 'तत्'-वारिदबिन्दुवृदं, 'मुक्तवत् '-भुक्तकर्मतुल्यमस्ति, भोग्यस्वरूपं ज्ञातुमाहतत्रेत्यादि 'च' शब्दश्चरणपूत्तौं, 'तत्र'-उक्तदृष्टान्ते, 'भोग्यवत् किमि'ति-भोग्यकर्मतुल्यं किमस्तीतिभावः, अस्योत्तरमाह' यावत् '-यथा, वसुन्धरायाम् , ' पतिष्यत् '-पतनं प्राप्स्यत् , 'वारिदबिंदुवृंदम्' 'परिशोष्यमस्ति'-परिशोषणाहं भवति, | तद्भोग्यवदस्ति, परिभुज्यमानस्वरूपं ज्ञापयितुमाह-निपत्यमानमित्यादि ' यावत् '-यथा, वसुन्धरायाम् , 'निपत्यमानम्'पतनं प्राप्यमाणं, ' यत् '-वारिदबिंदुकुंद, 'परिशुष्यमाणं'-परिशोषणं नीयमानं भवति, 'एतत् '-इत्थं प्रकारकम् , वारि-| दबिंदुव॒दं 'परिभुज्यमानवत'-परिभुज्यमानकर्मवत् भवति, पृथिव्यां पतितं प्रशुष्कं वारिदबिंदुवृंदमिव भुक्तं कर्माऽस्ति, पृथिव्यां पतिष्यत् परिशोष्यं वारिदबिंदुदमिव भोग्यं कर्माऽस्ति, पृथिव्यां निपत्यमानं परिशुष्यमाणं वारिदबिंदुबूंदमिव च परिभुज्यमानं कर्माऽस्तीतिभावः, अत्रैव दृष्टान्तरमाह-ग्राह्य इत्यादिना 'वा'-अथवा, 'यथा'-येन प्रकारेण, 'किले 'ति
१. यथा मुखान्तर्गतः कवलः चर्वितः स भुक्तकर्मवत्, वय॑माणकवलस्तु भुज्यमानकर्मवत् , यश्च चर्विष्यते कवलः स भोग्यकर्मवत्, इति कर्मणां कवलदृष्टान्तयोजनेति ।