________________
द्वादशो धिकार
तत्वसार
SARKARACHH0
समुपस्थिते सति, 'अयम्'-आहारको जनः, 'सुखं'-सौख्यं, 'तथे 'ति समुच्चये, 'दुःखं '-क्लेशं, 'लमेत'-प्राप्नोति, दर्टान्ते घटनामाह-कर्माणीत्यादिना 'इत्थं'-पुनरनेनैव प्रकारेण, पुनः शब्द एवकारार्थः, कर्माण्यपि, 'गृहन्'आददानः सन् , 'एषः'-पूर्वोक्तः, 'आत्मा'-जीवः, 'शुभाशुभानि'-शुमान्यशुभानि च, न जानाति'-न वेत्ति, 'तु' परंतु, 'यदा'-यस्मिन् काले, 'तेषां'-गृहीतानां कर्मणां, 'परिपाककालः'-परिणामसमयो भवति, 'तदा'-तस्मिन् काले, आत्मा, 'स्वयं'-स्वत एव, प्रेरकमंतरेणैवेतिभावा, 'सुखी'-सुखयुक्तोऽथवा 'दुःखयुतः'-दुःखी भवति ॥ २५-२६ ॥ मूलम्-विषं तथा कृत्रिममीदृशं स्या-त्तत्कालनाशाय तथैकमासात्।
द्विमासषण्मासकवर्षकाल-द्विवर्षवर्षयतोऽपि नाशकृत् ॥२७॥ इत्थं च कर्मापयपि भूरिभेद-भिन्नस्थितीनीह भवन्ति कर्तुः।
निजे निजे काल उपागते तु, ताहा फलं तानि वितन्वते स्वतः ॥२८॥ टीका-कर्मफलविषये सदृष्टान्तमाह-विषमित्यादि 'तथे 'ति समुच्चये, “कृत्रिमं'-परिकमितं, 'विष'-गरलं, 'ईदृशं स्यात् '-इत्थम् प्रकारं भवति, वक्ष्यमाणप्रकारं भवतीतिभावः, 'तत्कालनाशाय'-तत्क्षण एव विनाशाय भवति, | 'तथे 'ति समुच्चये, 'एकमासात् '-एकमासाभ्यन्तरे, 'द्विमासषण्मासवर्षकालद्विवर्षवर्षत्रयोऽपी'ति-द्विमासाभ्यन्तरे
१. परिकर्मितम् । २. कर्मणां कारणस्य । ३. यादृशं कर्म स्याद्यदि शुभं कर्म तदा शुभं फलं यद्यशुभं कर्माऽशुभं फलं कुर्वन्तीतिभावः ।