________________
पण्मासाभ्यन्तरे वर्षकालाभ्यन्तरे द्विवर्षाभ्यन्तरे तथा त्रिवर्षाभ्यंतरेऽपीतिभावः, 'नाशकृत् -नाशकारि भवति, दालन्तिकविषयमाह-इत्थमित्यादिना 'इत्थं च '-इत्थमेव, 'च' शब्द एवकारार्थः, ' इह '-अस्मिन् संसारे, 'कर्माण्यपि भूरिभेदभिन्नस्थितीनि भवन्ति'-अनेकभेदैभिन्ना स्थितिर्येषां तानि तथा सन्ति तानि कर्माणि, 'निजे निजे काल उपागते तु'-स्वस्वकाले समुपस्थित एव, 'तु' शब्द एवकारार्थः, 'कर्तुः'-कर्मणां कारकस्य, “स्वतः'-स्वयमेव, प्रेरकमंतरेणैवे. | त्यर्थः, ' तादृक्-तथाप्रकारकम् , शुभाशुभं वेतिभावः ‘फलं'-विपाक, 'वितन्वते '-कुर्वन्ति ॥ २७-२८ ॥
मूलम्-सिद्धो रसो वैष भवेदसिद्धः, सर्वो गृहीतोऽभ्यमितेन केनचित् ।
समागते तत्परिणामकाले, दुःखं सुखं वा भजते तदाशकः ॥२९॥ तथात्मगा दुःपिटिका च वालको, दुर्वातशीताङ्गकसन्निपाताः। स्वयं त्वमी कालबलं समेत्य, तद्वन्तमात्मानमतिव्यथन्ते ॥३०॥ अमी तथैते ऋतवोऽपि सर्वे, स्वं स्वं च कालं समवाप्य सद्यः।
मनुष्यलोकाङ्गभृतो नयन्ति, सुखं तथा दुःखमिमान स्वभावतः ॥३१॥ १. पक्वः। २. पारदः। ३. रोगितेन । ४. परिपाक। ५. सिद्धस्याऽसिद्धस्य वा पारदस्य भक्षकः। ६. दुष्टा स्फोटिका दुःपिटिका निर्नामिकायेत्यर्थः । ७. पीडयन्ति । ८. मनुष्यलोकमध्यवर्तिप्राणिनः प्रति ।
ACACADEGACASS