SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ माना'-असर्व कुर्वन्ती सती, 'सुखिता'-सुखयुक्ता, 'अथे'ति समुच्चये, 'दुःखिता'-दुःखयुक्ता भवति, दृष्टीते योजनामाहएवमित्यादिना ' एवम्.'-अनया रीत्या, 'तु'-शब्दश्चरणपूत्तौं, कर्माण्यपि, 'यदि 'ति निश्चये, अव्ययानामनेकार्थत्वात्'देहिनम् '-आत्मानं, 'दुःखं '-क्लेशं, 'वा'-अथवा, 'सुखं'-सौख्यं, 'अभिनयन्ति'-प्रापयन्ति, कथंभूतानि कर्माणि ? 'दुष्टशिष्टानि '-शुभाशुभानि, पुनः कथंभूतानि ? 'अनीरकाण्येव '-प्रेरकरहितान्येव, पुनः कथंभृतानि ? 'निजात्मगानि'-स्वात्मनि स्थितानि, पुनश्च कथंभूतानि ? 'स्वं कालमाप्य प्रकटीभवन्ति'-स्वं समयं प्राप्य प्रादुर्भाव प्राप्नुवन्ति सन्ति ॥ २३-२४ ॥ मूलम्-यद्वातुरः कोऽप्यगदान किलाऽऽहरन् , जानाति नासावहितान हितानथ । तदीयपाकस्य गते तु काले, सुखं तथा दुःखमयं लभेत ॥ २५ ॥ कर्माण्यपीत्थं पुनरेष आत्मा, गृह्णन् न जानाति शुभाशुभानि । यदा तु तेषां परिपाककाल-स्तदा सुखी दुःखयुतोऽथवा स्वयम् ॥ २६ ॥ टीका-दृष्टान्तरमभिधातुकाम आह-यद्वेत्यादि 'यद्वा'-अथवा, 'कोऽपि '-कश्चित् , ' आतुरः'-रोगी, 'किले 'ति निश्चये, “अगदान आहरन् '-औषधानि सेवमानो भवति, तत् ' असौ '-आतुरः, 'अहितान्'-अहितकारकान् , ' अथे 'ति समुच्चये, “हितान् '-हितकारकान् , ' न जानाति '-न वेत्ति, 'तदीयविपाकस्य तु काले गते'-तद्विपाकस्य तु समये १. औषधानि । २. जनः । ३. आहारको जनः कश्चित् ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy