SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ जैनतत्वसार ॥ ७२ ॥ ' एतत् ' - पूर्वोक्तं वृत्तं, 'प्रेरकं विना '- प्रेरणकर्त्तारमंतरेण, 'कुतः '--कस्मात् कारणात्, 'एष्यम्' - वांछनीयमस्ति ॥ १३-१४ ॥ मूलम् - सत्यं तु कर्माणि जडानि सन्ति, नाभोगकालं निजकं विदन्ति । आत्माऽपि दुःखानि न भोक्तुकाम- स्तथापि दुःखान्ययमाश्रयेत ॥ १५ ॥ द्रव्यादिसामग्र्य तथाऽनिवार्य शक्त्यैव कर्माणि तु तादृशान्यपि । स्फुटानि भूत्वा स्वककर्तृकं बला- दात्मानमेनं ननु दुःखयन्ति ॥ १६ ॥ टीका - अस्योत्तरमाह - सत्यमित्यादिना यद्यपि ' सत्यमि' ति-- एतत्तव कथनं सत्यमस्तीतिभावः, 'तु' --यत्, कर्माणि, ' जडानि सन्ति ' --अचेतनानि विद्यन्ते तानि, 'निजकम् ' --आत्मीयम्, 'आभोगकालं ' - भोगसमयं, ' न विदन्ति '-- नैव जानन्ति, 'आत्मा'--जीवोऽपि, 'दुःखानि '--क्लेशान्, 'भोक्तुकामः ' -- भोक्तुमिच्छुः नास्ति, तथापि 'अयम्' - आत्मा, दुःखानि आश्रयेत '--क्लेशाश्रयणं करोति, अत्र हेतुमाह - द्रव्यादीत्यादिना 'द्रव्यादिसामध्यतथाऽनिवार्यशक्त्यैव ' - द्रव्या " १. द्रव्यमादौ येषां तानि द्रव्यादीनि द्रव्यक्षेत्रकालभावरूपाणि समग्रवस्तूत्पत्तिस्थितिनाशहेतुभूतानि तेषां सामयं सामग्रीसमवायस्तस्य तथेति तादृशी अनन्यरूपा सा चाऽसौ अनिवार्याऽप्रतिहता बलवती वा सा चाऽसौ शक्तिश्च तथा प्रेरकभूतया तादृशान्यपि जडान्यजीवानि च कर्माणि द्रव्यादिसामग्र्यां सत्यां प्रकटीभूय स्वेषामात्मीयानां कारकं कर्त्तारं बलादेनमात्मानं दुःखद्वेषिणमपि दुःखयन्ति दुःखिनं कुर्वन्ति, अत एव कर्मादिप्रेरकं विनैव द्रव्यक्षेत्रकालभावसामध्या प्रेरकभूतया जडान्यपि कर्माणि कश्चित् कालमात्मनि स्थित्वापि ततः प्रकटीभूयाऽऽत्मानं दुःखयंति सुखयंति वा न तु कर्त्रादिप्रेरक प्रेरितानि इतिभावः ॥ द्वादशोऽघिकारः ॥ ७२ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy