________________
दीनां द्रव्यक्षेत्रकालभावानाम् सामग्र्यम् सामग्रीसमवायस्तस्य तथा तादृशी अनन्यरूपेति यावत् याऽनिवार्याऽप्रतिहता शक्तिः-सामर्थ्य तथैव तया-प्रेरकभूतयेतिभावः, 'तादृशान्यपि'-तादृगभूतान्यपि, जडान्यजीवानि चापीति यावत् कर्माणि, | 'तु' शब्दश्चरणपूत्तौं, 'स्फुटानि'-व्यक्तानि, भूत्वा, 'स्वकर्तृकं -स्वस्य कर्तारम् , ' एनं '-पूर्वोक्तम् , 'आत्मानं '| जीवम् , 'बलात्'-बलपूर्वकम् , ' नन्विति निश्चये, 'दुःखयन्ति '-क्लेशयन्ति, क्लेशे नयन्तीतिभावः ॥ १५-१६ ॥
मूलम्-यथोष्णकालादिऋतौ समेते, कश्चिजनः शीतलवस्तुसेवी ।
मृष्टादिकाम्लादिकरम्भभोजी, स्यात्तस्य तद्योगसमुत्थवातः ॥ १७ ॥ वर्षाऋतुं प्राप्य पुरु प्रकुप्यति, प्रायो वपुःस्थः स समीर उग्रः । लब्ध्वा च कालं शरदाख्यमेष, प्रायेण संशाम्यति पित्तभावात् ॥१८॥ एवं हि वातादिकवस्तुनस्त-त्पत्तिस्थितिप्रान्तदशात्रयेऽपि ।
आत्माश्रितस्याऽस्य न कश्चिदन्यः, विनैव कालादिकमत्र हेतुः ॥१९॥ टीका-अत्र दृष्टान्तमाह-यथेत्यादिना ' यथा'-येन प्रकारेण, ' उष्णकालादिऋतौ'-निदाघादावृत्ती, ' समेते'उपस्थिते सति, 'कश्चित् '-कोऽपि, 'जनः'-मनुष्यः, 'शीतलवस्तुसेवी'-शीतलपदार्थ सेवनकर्ता, तथा 'मृष्टादिकाम्लादि
१. भूरि । २. उत्पत्तेः । ३. नाश ।