________________
द्वादशोऽ
तत्त्वसार
धिकार
॥ ७१॥
मूलम्-ततः सचेतः प्रणिचेत चेतसा, जीवेभ्य एते सबला अजीवाः।
यतो यथाऽजीवबलप्रणोदिता, जीवास्तथा स्युः सुखदुःखभाजः ॥११॥ टीका-फलितमाह- ततः'-तस्मात् कारणात् , 'सचेत'-चेतसा सह, यथा स्यात्तथा सावधानमितिभावः, 'चेतसा'मानसेन, 'प्रणिचेत '-संजानीहि, यत् 'एते '-पूर्वोक्ताः, 'अजीवाः '-जीवरहिताः, धर्मास्तिकायादय इतिभावः, 'जीवेभ्यः'-जीवापेक्षया, 'सबलाः'-बलाः, बलवन्तः सन्ति, अत्र हेतुमाह-यत इत्यादिना 'यतः'-यस्मात् कारणात् , 'अजीवबलप्रणोदिताः'-अजीवा धर्मास्तिकायादयस्तेषां बलेन प्रणोदिताः-प्रेरिताः सन्तः, 'जीवा'-आत्मानः, 'यथा'यत्प्रकारका भवन्ति तथा'-तेनैव प्रकारेण, ते 'सुखदुःखभाजः स्युः '-सुखदुःखयुक्ता भवन्ति ॥ ११ ॥ द्रव्यक्षेत्रकालभावाऽनिवार्यशक्तिप्रेरणया जडस्वरूपस्याऽपि कर्मणः प्राकट्यमेकोनत्रिंशत्श्लोकैराह
मूलम्-स्वभाव एषोऽस्ति यतस्तु जीवाः, गृह्णन्ति कर्माणि शुभाशुभानि ।
- स्वकालसीमानमवाप्य कर्मा-ण्यमूनि चैषां सुखदुःखदानि ॥ १२ ॥ टीका-अत्र हेतुमाह-स्वभाव इत्यादिना 'यतः'-यस्मात् कारणात् , 'एषः'-पूर्वोक्तः, 'स्वभावस्त्वस्ति'-स्वभाव एव विद्यते, 'तु' शब्द एवकारार्थः, यत् ‘जीवाः '-आत्मानः, ‘शुभाशुभानि'-शुभान्यशुभानि च
१ अजीवा धर्माधर्माकाशपुद्गलकालस्वभावनियतिपूर्वकृत्पुरुषकारद्रव्यक्षेत्रकालभावलक्षणास्तेषां यद् बलं तेन प्रेरिता व्यापा| रिताः सन्तो जीवाः सुखदुःखभाजो भवन्ति । पुद्गलेष्वेव कर्माण्यन्तर्भविष्यन्तीतिभावः ।
मूलद