SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ANASCAR टीका-कर्मणः शक्तिं दर्शयितुमाह-षड्द्रव्येत्यादि 'खल्वि 'ति निश्चये, 'षड्द्रव्यमध्ये '-धर्माधर्माकाशपुद्गलजीवास्तिकायलक्षणानां षण्णाम् द्रव्याणाम् मध्ये, 'द्रव्यपञ्चकं '-पञ्च द्रव्याणि, जीवास्तिकायं विहाय शेषाणि पश्चद्रव्याणीत्यर्थः, 'एव' मिति समुच्चये, 'समवायपश्चकम् '-कालस्वभावनियतिपुराकृतपुरुषकारलक्षणानां पश्चानां समवायः, 'निर्जीवजीवरहितमस्ति, ' एतैः '-पूर्वोक्तैर्धर्मास्तिकायादिभिः, 'अजीवैरपि '-जीवरहितैरपि, 'जीवसंकुलं '-जीवयुक्तं, 'समस्तं'-सर्व, 'जगत् '-संसारः, 'निरन्तरं '-सततं, 'ध्रियते'-धार्यते ॥९॥ मूलम्-जीवास्त्विमे स्वोर्जितकर्मपुद्गलैः, सन्तः श्रिता दुःखसुखाश्रयीकृताः। द्रव्याणि षट् यत्समवायपश्चक-मेतन्मयं ह्येव जगन्न चाऽपरम् ॥१०॥ टीका-उक्तविषयमेवाह-जीवास्त्विम इत्यादिना 'इमे'-प्रसिद्धास्तु, 'जीवाः'-आत्मानः, 'स्वोर्जितकर्मपुद्गलैः'स्वस्योर्जितैः-संगृहीतैः कर्मपुद्गलैः, 'दुःखसुखाश्रयीकृताः'-दुःखसुखाधीनाः कृताः सन्ति, कथंभूता जीवाः ? 'षड्द्रव्याणि '-धर्मास्तिकायादीनि, तथा 'समवायपञ्चकं '-कालादीन पंचकर्म, 'श्रिताः सन्तः'-आधीना भवन्तः, अत्र हेतुमाह-यदित्यादिना ' यत्'-यस्मात् कारणात् , 'ही 'ति निश्चये, 'जगत् '-संसारः, ' एतन्मयं एव'-धर्मास्तिकायादि षड्द्रव्यमयमेव, समवायपश्चकमयं चैवाऽस्ति, 'न चापरमिति'-पूर्वोक्तस्वरूपादन्यरूपं जगन्नास्तीत्यर्थः ॥१०॥ तानि कर्माणि जीवः कालादिपञ्चसमवायसामर्थ्यात् गृह्णाति धारयति भुङ्क्ते शमयतीति । एवं नवापि वस्तूनि अजीवानि जीवा| नाम् जीवनोपायाः । तत्र कालस्तूभयत्र वर्तमान आयुरादिसर्वप्रमाणवद्वस्तुप्रमाणकर इति ॥ ॐॐॐ4%ARA
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy