SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार द्वादशोऽधिकार ॥ ७० ॥ COMAMROGRASAC5 ' स्वरूपतुल्यं'-स्वरूपानुरूपं फलम् , 'आनयन्ति'-प्रापयन्ति ॥ ७ ॥ मूलम्-यतोऽभिवर्त्तन्त इमेऽत्र जीवाः, अजीवसम्बन्धमधिश्रिताः सदा । जीवन्त्यजीवन्नथ जीवितार-बैकालिकः सङ्गम ऐभिरेषाम् ॥ ८॥ टीका-उक्तविषये हेतुमाह-यत इत्यादिना ' यतः'-यस्मात् कारणात् , 'अत्र'-अस्मिन् संसारे, ' इमे'-प्रसिद्धाः, 'जीवाः'-आत्मानः, 'अभिवर्त्तन्ते'-विद्यन्ते, ते 'सदा'-सर्वदा, 'अजीवसंबन्धमधिश्रिताः'-जडस्य योगमाश्रिताः, जडशरीरसंबंध प्राप्ता इतिभावः, 'जीवन्ति '-जीवनं धारयन्ति, ' अजीवन् '-प्राणान् धारयन्ति स्म, 'अथे 'ति समुचये, 'जीवितार'--जीविष्यन्ति, फलितमाह-त्रैकालिक इत्यादिना 'एषां'-जीवानाम् , 'एभिः'-कर्मभिः सह, 'त्रैकालिका'त्रिकालभावी, 'संगमः'-संबंधोऽस्ति ॥८॥ मूलम्-पद्रव्यमध्ये खलु द्रव्यपञ्चकं, निर्जीवमेवं समवायपश्चकम् । एतैरजीवैरपि जीवसकुलं, जगत्समस्तं ध्रियते निरन्तरम् ॥९॥ १. जीविष्यन्ति । २. कर्मभिः । ३. आत्मनाम् । ४. धर्माधर्माकाशपुद्गलजीवास्तिकायकाललक्षणानि षड्द्रव्याणि, तन्मध्ये जीवास्तिकायमेकं विमुच्य शेषाणि पञ्चद्रव्याणि अजीवानि, एवं कालस्वभावनियतिपुराकृतपुरुषकारलक्षणपश्चसमवायोऽप्यजीवः, एभिर्दशभिरजीवरशेष जीवसंभृतं जगत् सन्ध्रियते । यथा धर्मास्तिकायेन चलति । अधर्मास्तिकायेन तिष्ठति । आकाशास्तिकायेनाऽवकाशं लभते। पुद्गलास्तिकायनाऽऽहारविहारादि करोति । कर्माण्यत्राऽन्तर्भवन्ति । यैरजीवरूपैरयं जीवः सुखदुःखभार भवति %
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy