________________
कस्यापि प्रेरणां विना जीवस्य स्वस्वरूपप्राप्तिकरणं, कर्मणः स्वभावम् , जगत्स्वरूपं च षडभिः श्लोकैराह
मूलम-स्थाने त्वजीवानि पुनर्जडानि, कर्माणि किं कर्तुमिह क्षमाणि।
कश्चित्तदेषां परिणोदकोऽस्तु, यच्छक्तितोऽमूनि सहीभवन्ति ॥ ६॥ टीका कर्मणो जडत्वात सुखदुःखकर्तृत्वं न घटत इत्याशंकां प्रश्नयति-स्थाने त्वित्यादिना 'स्थाने ' इति-पूर्वोक्तं कथनं उचितमस्तीत्यर्थः, 'तु'-परन्तु, 'कर्माणि' 'अजीवानि'-जीवरहितानि, 'पुन 'रिति समुच्चये, 'जडानिअचेतनानि, सन्ति तानि, ' इह'-अस्मिन् संसारे, 'किं कर्तुम् ?'-किं कार्य विधातुम् ?, 'क्षमाणि'-समर्थानि सन्ति, जडानि कर्माणि किमपि कर्तुं न शक्तानीत्यर्थः, 'तत् '-तस्मात् कारणात् , 'एषाम् '-कर्मणाम् , 'परिणोदकः'-प्रेरका, । 'कश्चिदस्त'-कोऽपि भवेत, यच्छक्तितः '-यस्य शक्तेः, 'अमुनि'-कर्माणि, 'सहीभवन्ति'-समर्थानि भवेयः॥६॥
मूलम्-इदं तु सत्यं परमन्त्रकर्मणा-मेषां स्वभावोऽस्ति सदेहगेव ।
विनेरकं यान्यखिलात्मनः स्वयं, स्वरूपतुल्यं फलमानयन्ति ।। ७॥ टीका-अस्योत्तरमाह-इदं वित्यादिना 'इदं तु सत्य' मिति-एतत् तव कथनं सत्यमस्तीत्यर्थः, 'परम्'-परन्तु, 'अत्र'-अस्मिन् संसारे, 'एषां'-पूर्वोक्तानां कर्मणां, 'सदा'-सर्वदा, 'इदृगेव'-इत्थंभूत एव, 'स्वभावः' 'अस्ति'विद्यते, 'यत्'-यानि कर्माणि, 'ईरकं विना '-प्रेरकमंतरेण, 'स्वयं'-स्वतः, 'अखिलात्मनः'-सर्वेषाम् जीवानां,
१. कर्माणि । २. समर्थीभवन्ति ।