________________
अधुना, 'पूज्यान्'-पूजार्हान् भवतः, 'प्रणयात् '-विनयेन, 'पृच्छामि '-पृच्छां करोमि, यत् 'जीवः'-आत्मा, 'तु' शब्दश्चरणपूत्तौं, 'शुभाशुभानि कर्माणि '-शुभान्यशुमानि च कर्माणि, 'सुखैषी सन् '-सुखाभिलाषी सन्, 'भुङ्क्ते -भोगे नयति, तर्हि 'किमु दुःखितः' इति दुःखितः कथं भवतीत्यर्थः, 'तदेति सति दुःखिते तस्मिन्नित्यर्थः, 'नन्विति वितर्के 'कश्चित् '-कोऽपि, 'कर्मनोदकः'-कर्मप्रेरकः, ' अस्ति'-विद्यते ॥ १॥ मूलम्-विधिग्रहो वा परमेश्वरो वा, कर्ता यमो वा भगवानिहाऽस्तु ।
प्रणोदकः कर्मगणस्य येन, दुःखं सुखं वा परिभोज्यते जगत् ॥२॥ टीका-कोऽसौ कर्मनोदको भवेदिति वदनाह-विधिरित्यादि " इह'-अस्मिन् संसारे, “विधिः'-विधाताऽथवा, 'ग्रहः '-सूर्यादिः, 'वा'-अथवा, 'परमेश्वरः'-परमेशः, 'कर्ता'-कारकः, जगद्रचयितेति यावत् , ' यमः'-यमराजः, 'वा'-अथवा, भगवान् , 'कर्मगणस्य'-कर्मसमूहस्य, 'प्रणोदकः'-प्रेरको भवेत् , 'येन'-विध्यादिना, 'जगत् 'संसारः, 'दुःखं सुखं वा '-क्लेशं सौख्यं वा, परिभोज्यते '-परिभोगं प्राप्यते, यो जगत् दुःखं सुखं वा भोजयतीतिभावः ॥२॥ मूलम्-नैवं यदेतानि भवन्ति कर्म-नामानि शास्त्रे पठितानि तद्यथा ।
भाग्यं स्वभावो भगवानदृष्टं, कालो यमो दैवतदैवदिष्टम् ॥ ३ ॥