________________
जैन
तत्त्वसार
॥ ६८ ॥
अवकाशः ' - अन्यपदार्थसमावेशनयोग्यः, ' तादृशोऽस्ति ' - तथाभूत एव विद्यते, बाह्यसमावेशे या गवकाश आसीत्तथैव तत्समावेशेऽपि विद्यत इतिभावः ।। ७-८ ।।
जीवपुद्गलधर्मास्तिकायादिपूर्णेऽपि लोके तथैवावकाशोक्तिलेश एकादशोऽधिकारः
अथ द्वादशोऽधिकारः
4
जीवसुखदुःखादिकारणं कर्मैव, भाग्यस्वभावादिनाम्ना कर्मणैव प्रतिपादनं पञ्चश्लोकैराहमूलम् - पृच्छामि पूज्यान् प्रणयादिदानीं, जीवस्तु कर्माणि शुभाशुभानि ।
भुङ्क्ते सुखैषी किमु दुःखितः संस्तदाऽस्ति कश्चिन्ननु कर्मनोदकः ॥ १ ॥ टीका - सुखैषी जीवो दुःखकारणमशुभं कर्म स्वतः कथं भुङ्क्ते १ इत्याशङ्कां प्रश्नयति- पृच्छामीत्यादिना 'इदानीम् ' -
१. जीवो हि स्वभावात्, सुखैषी दुःखद्वेषी, तेन सुखहेतुशुभकर्माणि स्वेच्छया भुङ्क्ताम्, परं दुःखकारणमशुभकर्म भोक्तुं स्वेच्छया न समीहते । तदाऽशुभकर्मभोगे तु कश्चित् प्रेरकोऽस्तु येनाऽयमात्माऽशुभकर्मबलात् दुःखं भोज्यते । स च प्रेरको लौकिकः कश्चिद् वक्ष्यमाणोऽस्तु इति पृच्छाकारः प्रेरकपूर्विका कर्मभुक्तिमाह । तदा कर्मवादी नैवमित्यादिवृतत्रयेणोत्तरमाह ।
द्वादशोऽधिकारः
॥ ६८ ॥