SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ACESSORS येन प्रकारेण, 'मान्ति'-संविष्टानि भवन्ति, 'तद्वत् '-तथैव, “लोकेऽपि '-विश्वस्मिन्नपि, 'द्रव्याणि, '-जीवादीनि, 'नित्यं '-सततं, 'वसन्ति'-तिष्ठन्ति ।। ४-६ ॥ मूलम्-लोके यथा वा वनखण्डमध्ये, रेणुस्तथामी त्रसरेणवोऽपि । सूर्यातपो वह्नितपः सुमानां, गन्धः समीरः पशुपक्षिशब्दः ॥७॥ दादिननाद छदमर्मरादि, सर्वाणि मान्तीह तथाऽवकाशः । एवं च द्रव्यैर्निचितेऽपि लोके वकाश एषोऽपि च तादृशोऽस्ति ॥८॥ टीका-दृष्टान्तमभिधातुकाम आह-लोक इत्यादि 'वा'-अथवा, 'लोके-संसारे, 'यथा'-येन प्रकारेण, 'वनखण्डमध्येअरण्यभागमध्ये ', ' रेणुः '-धूलिः, भवति, 'तथे 'ति समुच्चये, 'अमी'-प्रसिद्धाः, 'त्रसरेणवः'-किरणप्रतिबिंबेधूडीयमानरजांसि, 'अपि' शब्दः समुच्चये भवति, तथा 'सूर्यातपः '-सवितुर्धर्मः, 'वहितप:'-अग्नेस्तापः, 'सुमानां'पुष्पाणाम् , गंधः, 'समीरः'-वायुः, 'पशुपक्षिशब्दः'-पशूनां पक्षिणाम् च रवः, 'वादिननादः'-वाद्यानां घोषः, 'छदमर्मरादि'-पत्राणाम् मर्मरादिध्वनिः, 'सर्वाणि'-सकलानि, 'मान्ति'-समाविष्टानि भवन्ति, 'तथे "ति तथाप्यर्थः, 'इह'वनखण्डमध्ये, 'अवकाशः'-अन्यपदार्थसमावेशनयोग्यत्वम् भवति, दान्ते घटनामाह-एवमित्यादिना 'एवम् '-उक्तरीत्या, 'च' शब्दश्चरणपूर्ती, 'द्रव्यैर्निचितेऽपि '-द्रव्याप्तेऽपि, 'लोके'-संसारे, अपि शब्दश्चरणपूत्तौं, 'एषः'-पूर्वोक्तः, 45454545433
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy