________________
जैन
तत्त्वसार
॥ ६७ ॥
ज्योतिर्मतिर्व्याकरणादिविद्याः, रागा रसाशीर्विषयाः कषायाः । वार्त्ता विनोदा वनिताविलासाः, दानादयो मत्सरमोहमैत्र्यः
॥५॥
"
क्षान्तिर्धृतिर्दुःखसुखे गुणास्त्रयः, आम्नायशङ्काभयनिर्भयाधयः । ध्यानादयो मान्ति यथैव तद्वद्, द्रव्याणि लोकेऽपि वसन्ति नित्यम् ॥ ६ ॥ टीका - दृष्टान्तरमाह - पुनश्चेत्यादिना 'पुनः ' - शब्दश्च समुच्चये, 'कस्यापि ' - कस्यचिदपि, 'विचक्षणस्य - विज्ञस्य, ' वक्षोन्तरा' - हृदयमध्ये, 'शास्त्रपुराणविद्याः' - शास्त्राणां पुराणानां च विद्याः, 'वेदाः' - श्रुतयः, 'स्मृतिः' - धर्मशास्त्रम्, 'च'पुनः, 'मंत्रकला : ' - मंत्रकौशलानि मंत्रविद्या इतियावत्, 'सर्वाणि'- सकलानि, 'यंत्रतंत्राणि' - यंत्राणि तंत्राणि च, 'अभिधान कोषाः 'नाम्नां कोशः, 'ज्योतिः ' -ज्योतिःशास्त्रम्, 'मतिः ' - विज्ञानम्, व्याकरणादिविद्या - व्याकरणादीनां विज्ञानम्, आदिशब्देन न्यायादिपरिग्रहः, 'रागाः' - ध्रुवपदादयः, 'रसाशीर्विषया: ' - शृंगारवीरादीनां रसानाम् आशिषां च विषयाः, ' कषायाः ' - क्रोधादयः, ' वार्त्ता' - कथा, 'विनोदा: ' - चित्तशैथिल्याय हरणजनका उपन्यासादिविषयाः, 'वनिताविलासा : ' - रामानयनाद्यंगोत्पन्नहावविशेषाः, 'दानादयः '- प्रदानप्रभृतयः, 'आदि' शब्देन शीलादिपरिग्रहः, 'मत्सर मोहमैत्र्यः ' - मत्सरोऽन्यशुमद्वेषः, मोह:- मूर्च्छा, मैत्री - मित्रत्वम्, ' क्षान्तिः ' - क्षमा, तितिक्षेतियावत्, ' धृतिः - धैर्यम्, 'दुःखसुखे ' -क्लेशसौख्ये, 'गुणास्त्रय: ' - सच्चरजस्त मोरूपाः, आम्नायेत्यादि ' आम्नाय : ' - संप्रदायः, 'शंका' - स्नेहः, ' भयं '-भीतिः, ' निर्भयम् ' - भयराहित्यम्, 'आधयः ' - मानसिकन्यथाः, ' ध्यानादय: ' - ध्यानप्रभृतयः, 'यथैव' -
एकादशोऽ धिकार:
॥ ६७ ॥