________________
गांधिकमध्ये 'गंधविक्रेतृक्रयविक्रयस्थाने, 'कर्पूरगन्धः ' - घनसारस्य गन्धः, ' प्रसृतोऽस्ति - प्रसरणं प्राप्तो भवति, ' तत्र ' - तस्मिन् गांधिकहट्टमध्ये, कस्तूरिकाजातिफलादिसर्ववस्तूत्थगंधः - कस्तूरिका - मृगमदः जातिफलं -जातिकोशमित्यादिभ्यः सर्वेभ्यो वस्तुभ्य उत्थः - उत्पन्नो गंध:, ' नन्विति - वितकें, ' किं न माति १ - किं समावेशं न याति १ परिमात्येवेतिभावः ॥ २॥
मूलम् - तत्राऽस्ति मार्त्तण्डतपस्तथैव, धूपस्य धूमस्त्रसरेणवोऽपि ।
१२
वायुश्च शब्दश्च सुमादिगन्धो, मातो यथा स्यादथ चाऽवकाशः ॥ ३ ॥
टीका - अत्रैव पुष्टिमाह - तत्राऽस्तीत्यादिना ' तत्र ' - गांधिक हट्टमध्ये, ' मातंडतपः '- सूर्यस्याऽऽतपः, 'अस्ति 'विद्यते, ' तथैवेति' - समुच्चये, धूपस्य धूमः ' - सुगंधिद्रव्यजन्यधूपस्य धूमः ' त्रसरेणवोऽपि ' - किरणप्रतिबिंबोड्डीयमानरजांस्यपि, 'च'- पुन:, ' वायुः पवनः, 'च' पुनः शब्दः, तथा 'सुमादिगन्धः '- पुष्पादीनां गन्धः, 'यथा ' - येन प्रकारेण ' मातः स्यात् ' - समाविष्टो भवेत्, ' अथ चे 'ति - तथापीत्यर्थः, ' अवकाशं ' - अन्यगन्धादिवस्तुसमावेशन - योग्यत्वं भवति ॥ ३ ॥
मूलम् - पुनश्च कस्याऽपि विचक्षणस्य, वक्षोन्तराशास्त्रपुराणविद्याः । वेदाः स्मृतिर्मन्त्रकलाश्च यन्त्र-तन्त्राणि सर्वाण्यभिधानकोषाः
॥ ४ ॥