________________
जैनतत्त्वसार
अथ एकादशोधिकारः
एकादशोऽधिकार
निगोदव्याप्ताखिलविश्वेऽपि तत्राऽन्यद्रव्यसमावेशावकाशयोरवस्थानमष्टश्लोकैराहमूलम्-स्वामिन्निदं विश्वमशेषमित्थं, पूर्ण निगोदैर्यदि तर्हि तत्र ।
कर्माण्यथो पुद्गलराशयोऽपि, धर्मास्तिकायादि कथं हि मान्ति ॥१॥ टीका-निगोदैविश्वेऽस्मिन् व्याप्ते कथं तत्र कर्मादिसंस्थितिरित्याशंक्य प्रश्नयति-स्वामिनित्यादिना 'हे स्वामिन् ! - हे प्रभो!, 'यदि'-चेत् , ' इत्थम् '-उक्तप्रकारेण, ' इदं '-प्रसिद्धम् , ' अशेषं '-सर्व, 'विश्वं'-जगत् , 'निगोदः पूर्ण'निगोदजीवैाप्तमस्ति, तर्हि '-तदा, 'तत्र'-तस्मिन् विश्वे, कर्माणि, ' अथे 'ति समुच्चये, “पुद्गलराशयोऽपि'पुद्गलसमूहा अपि, तथा, 'धर्मास्तिकायादि'-धर्मास्तिकायप्रभृतिकम् , 'ही' ति चरणपूत्तौं, 'कथं मान्ति ?'-केन प्रकारेण समाविष्टानि भवन्ति ॥१॥
मूलम्-सत्यं यथा गान्धिकहद्दमध्ये, कपूरैगन्धः प्रसृतोऽस्ति तत्र ।
___ कस्तूरिकाजातिफलादिसर्व-वस्तूत्थगन्धो ननु माति किं न ? ॥२॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना 'सत्यमि 'ति-पूर्वोक्तं कथनं सत्यमस्तीतिभावः, 'यथा'-येन प्रकारेण,
॥६६॥