________________
' निदर्शनैः ' - दृष्टान्तैः, दृष्टान्तकथनपूर्वकमिति यावत्, ' यथामति ' - स्वमत्यनुसारेण 'निगोदासुमतां' - निगोदजीवानाम्, ' किञ्चित् ' - किमपि, ' स्वरूपम् ' - लक्षणं, ' गदितं ' -कथितं यथामति किञ्चिदेव स्वरूपं गदितमित्यत्र हेतुमाह-यत इत्यादिना ' यतः ' - यस्मात् कारणात्, 'तु' शब्दश्वरणपूत, 'किले ' ति निश्चये, ' केवलिनं विना ' - केवलज्ञानिन-मतिरिच्य, ' कोऽपि ' - कश्चिदपि, 'इदं' - निगोदानां स्वरूपम्, 'वक्तुं' - कथयितुम्, 'न शक्तः ' - न समर्थोऽस्ति ॥ ४१ ॥
निगोदजीवानां क्षेत्रस्थितिगमागमकर्मबन्धादि-निदर्शनोक्तिलेशो दशमोऽधिकारः समाप्तः ॥