SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार दशमोऽधिकार ॥६५॥ CREAAAA दृष्टान्तमाह-यद्वदित्यादिना 'यद्वदिति '-यथेत्यर्थः, यथा तथा ज्ञातदशायामज्ञातदशायां वा, 'आहृतम्'-युक्तं, 'विष'-गरलं, निहत्येव ॥ ३९ ॥ मूलम्-सञ्ज्ञाश्चतस्रोऽप्यथवैषु मिथ्या, योगः कषायोऽविरतिश्च सन्ति । इमानि सर्वाण्यपि कर्मबन्ध-बीजान्यनन्तैस्त्वधिको विरोधः ॥४०॥ टीका-संज्ञातरेण कर्मबंधमाह-संज्ञा इत्यादिना ' अथवा '-यद्वा, 'एषु'-निगोदजीवेषु, 'मिथ्या '-मिथ्यात्वम्, 'योगः'-काययोगादिकः, 'कषायः'-क्रोधादिः, 'अविरतिः'-अविरमणम् , 'च' शब्दः समुच्चये, 'चतस्रः'-चतुः संख्याका संज्ञाः, अपि, 'सन्ति'-विद्यन्ते, ' इमानि '-एतानि पूर्वोक्तानि, 'सर्वाण्यपि '-सकलान्यपि, सामान्ये क्लीबत्वप्रयोगः, संज्ञानि कृत्यानि इत्यस्य वा पदस्याध्याहारो विधेयः, 'कर्मबंधबीजानि'-कर्मबन्धस्य कारणानि, 'तु' शब्दो | भिन्नक्रमद्योतनार्थः, 'अनन्तैस्त्वधिको विरोध:'--अनन्तैः सह योऽधिको विरोधोऽस्ति तस्य तु किं वक्तव्यम् ? स त्वतिशयेन कर्मबंधहेतुरस्त्येतिभावः ॥ ४० ॥ मूलम्-एवं निगोदासुमतां निदर्शनैः, किश्चित्स्वरूपं गदितं यथामति । यतस्त्विदं नो किल कोपि वक्तुं, शक्तो विना केवलिनं कुलीनाः॥४१॥ टीका-पूर्वोक्तं विषयमुपसंहर्तुमाह-एवमित्यादिना 'हे कुलीनाः!'-हे सत्कुलोद्भवाः1, 'एवम्'-अनया रीत्या, १. निगोदेषु । २. मिथ्यात्वम् । ३. काययोगादिकः ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy