________________
OCCASTORIES
मलम-पूज्याः! निगोदासुमतां मनोऽस्ति नो, केनेदृशं तन्दुलमत्स्यवद् भृशम् ।
प्रजायते कर्म यतस्त्वनन्त-कालप्रमाणं परिपाक एवम् ॥३८॥ टीका-अनन्तकालस्थायि परिपाकविषये प्रश्नयति-पूज्या इत्यादिना ' हे पूज्याः !'-हे माननीयाः !, 'निगोदा-1 सुमतां '-निगोदजीवानाम् , ' मनः'-चित्तं, 'नो अस्ति'-न विद्यते, तर्हि 'तंदुलमत्स्यवत् '-तंदुलनामकमत्स्यविशेषवत् , 'भृशं'-निरन्तरम्, 'ईदृशम् '-इत्थंभूतम् , कर्म, 'केन'-कारणेन, 'प्रजायते '-उत्पद्यते, 'यतः' यस्मात कर्मणस्तु, 'एवम् '-उक्तप्रकारका, 'परिपाकः'-विपाकः, फलमिति यावत् , 'अनन्तकालप्रमाणम्'-अनन्तकालपर्यन्तम् , क्रियाविशेषत्वात् क्लीवत्वम् भवति ॥ ३८॥ मूलम्-सत्यं यदेतन्न मनोऽस्त्यमीषां, तथापि चान्योऽन्यविबाधनोत्थम् ।
दुष्कर्म तत्पद्यत एव यद-द्विषं निहन्त्येव यथा तथाहृतम् ॥३९॥ टीका-अस्योचरमभिधातुकाम आह-सत्यमित्यादिना यद्यपि 'एतत्'-पूर्वोक्तं कथनं सत्यमस्ति, यत् , 'अमीषां'निगोदजीवानाम् , 'मनः'-चित्तं, 'नास्ति'-न विद्यते, 'तथापि '-तदपि, 'च' शब्दश्वरणपूत्तौं, 'दुष्कर्म तु'निकृष्टं कर्म तु, 'उत्पद्यत एव'-जायत एव, कथंभूतं दुष्कर्म ? ' अन्योऽन्यविबाधनोत्थं '-परस्परपीडनोत्पन्नम्, अत्र
१. पीडन । २. यथा । ३. विषं मातमज्ञातं वा भक्षितं मारयति तत्र झाते तु स्वयमन्यो वा कश्चिदुपायमपि कृत्वा जीवे. कादपि परमझातं तु मारयत्येवेति शेषः, अत एवैषां मनो विना समुत्पन्नं परस्परवैरमन्तकालेऽपि भुज्यमानं न पूर्ण स्यादिति तत्त्वम् ।