SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ जैन तस्वसार ॥ ६४ ॥ 4 टीका - अत्रैव दृष्टान्तरमाह - तथेत्यादिना ' तथा ' - तेनैव प्रकारेण, 'पुनः ' इति समुच्चये, ' तस्करके 'चौरे, ' निहन्यमाने ' - मार्यमाणे सति, 'च' पुनः, 'सत्यां ' - पतिव्रतायाम्, 'अनले विशन्त्याम् ' - अग्नौ प्रवेशं कुर्वन्त्याम्, कौतूहलार्थं ' - कौतुकनिमित्तं, ' परिपश्यताम् '-वीक्ष्यमाणानाम्, 'नृणां मनुष्याणाम्, ' द्वेषं विना ' - विना वैरमंतरेणैव, 'कर्मसञ्चयः '' कर्मबंधः, ' उत्तिष्ठति - उद्भवति, जायत इत्यर्थः, 'तं ' - पूर्वोक्तम् कर्मसञ्चयम्, 'किले 'ति निश्वये, 'बुधा: ' - विद्वांसः, 'सामुदायिकम् ' - समुदाय भवम्, 'आहुः ' - कथयन्ति, 'यदीयः ' -यस्य संबंधी, 'भोगोऽपि ' - कलाऽनुभवोऽपि, ' अनेकशः ' - अनेकप्रकारं, ' नियतः ' - निश्चितोऽस्ति, फलितमाह - एवमित्यादिना ' ही 'ति चरणपूर्त्ते, चेत् '- यदि, ' एवम् ' -उक्तरीत्या, 'कौतुकतः ' - कुतूहलवशात्, 'कृतानां' विहितानाम्, 'स्वकर्मणां ' - निजकार्याणाम्, ' अत्र ' - अस्मिन् संसारे, ' सुदुर्विपाकः ' - अतिशयेन निकृष्टम् फलम् भवति, तदा ' - तर्हि, ' अनन्तजीवै: ' - अनन्तजन्तुभिः सह, 'अन्योऽन्यबाधोत्थविरोधजन्मनां ' - परस्परं बाधया - पीडयोत्थः - उत्पन्नो यो विरोधः - द्वेषस्तस्माज्जन्मोत्पत्तिर्येषां ते तथा तेषाम् एवंभूतानाम् ' कृतकर्मणां ' -विहितानां कर्मणां 'भोगः ' - फलानुभवः, ' ही 'ति निश्चये, 'अनन्ते'अन्तरहितेऽपि, ' काले'-समये, ' अपगते 'व्यतीते सति, 'निगोदजीवैः ' - निगोदजन्तुभिः, ' जातु ' - कदाचित्, ' नहि पूर्यते ' - नहि पूर्ति नीयते ।। ३५-३७ ।। - निगोदजीवानां मनो विनापि कर्मबन्धनं भवतीति चतुःश्लोकैराह दशमोऽधिकारः ॥ ६४ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy