SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ CARROTECH मपि -निगोदजीवानामपि, 'ईक्ष्य'-दृष्टव्यम् , ज्ञातव्यमितिभावः ॥ ३१-३३ ॥ मूलम्-तथातिसङ्कीर्णकपञ्जरस्थिताः, विद्वेषभाजश्चटकादिपक्षिणः । जालादिगा वा तिमयो मिथोभव-द्विबाधनद्वेषचिताः सुदु:खिनः॥ ३४ ।। टीका-कर्मबंधत्वे दृष्टान्तरमभिधातुकाम आह-तथेत्यादिना ' तथा'-तेनैव प्रकारेण, 'अतिसंकीर्णकपञ्जरस्थिताः'अत्यंतसंकीर्णतायुक्त पञ्जरे स्थिताः, 'चटकादिपक्षिणः'-कलविकादिविहंगमाः, 'विद्वेषभाजः'-वैरयुक्ता भवन्ति, 'वा'अथवा, 'जालादिगा'-जालादिबंधनं प्राप्ताः, 'तिमयः'-मत्स्यविशेषाः, 'मिथोभवद्विबाधनद्वेषचिताः'-परस्परं भवद्यद्विबाधनं-पीडनं तेन यो द्वेषः-वैरं तेन चिंतायुक्ताः, 'सुदुःखिनः'-अतिशयेन दुःखिता भवन्ति ॥ ३४ ॥ मूलम्-तथा पुनस्तस्करके निहन्य-माने च सत्यामनले विशन्त्याम् । कौतूहलार्थ परिपश्यतां नृणां, द्वेषं विनोत्तिष्ठति कर्मसञ्चयः ॥३५॥ बुधास्तमाहुः किल सामुदायिकं, भोगो यदीयो नियतोऽप्यनेकशः। एवं हि चेत्कोतुकतः कृतानां, स्वकर्मणामत्र सुदुर्विपाकः अन्योऽन्यबाधोत्थविरोधजन्मना-मनन्तजीवैः कृतकर्मणां तदा। भोगोऽप्यनन्तेऽपगते हि काले, निगोदजीवन हि जातु पूर्यते ॥३७॥ SHAKAASARA १. बन्धः ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy