________________
तत्त्वसार
| दशमोऽधिकारः
६३॥
इत्यादिकं वैरमतुच्छमीहक , प्रवर्धमानं प्रतिबन्दि यत्स्यात् ।
तस्मादमीषामतिदुष्कृतं स्या-देवं निगोदाणभृतामपीक्ष्यम् ॥ ३३ ।। टीका-अत्र लौकिकोदाहरणमाह-लोक इत्यादिना ' यथा'-येन प्रकारेण, लोके '-संसारे, 'किले 'ति निश्चये, 'नराणाम् '-मनुष्याणाम् , 'कर्मबंधः'-कर्मयोगो भवति, केषां नराणाम् ? इत्याह-'गुप्तिगृहाश्रितानाम् '-कारागृहस्थितानाम् , कथंभूतानाम् गुप्तिगृहाश्रितानाम् ? ‘अन्योन्यसम्मर्दनिपीडितानाम् '-परस्परं विमर्दनेन दु:खितानाम्, पुनः कथंभूतानां ? ' प्रत्येकमाबद्धनिकामवैरभाजां'-एकैकं प्रति आबद्धं-बंधनं नीतं यत्रिकामवैरं-निकाम्य शत्रुत्वं तद्भाजांतयुक्तानाम् , कर्मबंधत्वे हेतुमाह-भावस्त्वित्यादिना 'अमीषां '-गुप्तिगृहाश्रितानां नराणां, 'भावस्तु '-चित्ताशयस्तु, 'अलं'-पर्याप्तत्वेन, ' ईदृशः'-इत्थंभूतः, 'म्याद '-भवति, 'यदेषु'-एषां मध्यात्, यदि, 'कश्चित् '-कोऽपि नरः, 'म्रियते'-मृत्युं प्राप्नुयात् , 'वा'-अथवा, 'याति'-नश्येत् , 'तदा'-तर्हि, अहं, 'सुखेन'-सुखपूर्वकम् , 'आसीयम् - तिष्ठेयम् , 'च'-पुनः, 'भक्षं '-भक्षणीयं वस्तु, 'अंशतः'-विभागेन, 'किश्चित् '-किमपि, ‘घनम् '-अधिकम् , 'आयाति'-आगच्छेत् , पूर्वापेक्षया किञ्चिरधिकं भक्ष्यं लभ्येतेतिभावः, फलितमाह-इत्यादिकमित्यादिना ' यत्'-यस्मात् कारणात् , ' इत्यादिकम् '-एतत् प्रभृतिकम् , ' अतुच्छम् '-अस्वल्पम् , ' ईदृक् '-इत्थंभूतं, ' प्रवर्द्धमानं '-वृद्धिं गच्छत् , 'वैरं'-शत्रुत्वम् , 'प्रतिबन्दि'-बन्दिनं प्रति, एकैकबन्दिन इतिभावः, 'स्याद्'-भवेत् , 'तस्मात् '-कारणात् , 'अमीषां'गुप्तिगृहाश्रितानां नराणाम् , ' अतिदुष्कृतम्'-अतिदुष्कर्मबंध, 'स्याद् '-भवेत् , 'एवम् '-उक्तरीत्या, 'निगोदांगभृता
तस्मात्' कारण निगोदांगमृता ।
॥
६॥