________________
कथं न भोग्यं पुनरेधमानं तदेव तेनैव ततोऽप्यनन्तम् ।
एवं निगोदासुमतां न वैरं, सान्तं न दुष्कर्म च नाऽपि कालः ॥ ३० ॥
टीका - इदानीं दुःखहेतुं स्पष्टयति - एकस्येत्यादिना 'इह '-अस्मिन् संसारे, एकस्यापि, ' जंतोः '- जीवस्य, 'एकेन जीवन - एकेन जंतुना सह यत् 'वैरं ' - शत्रुत्वम् भवति, परन्तु, 'चेत् ' - यदि, 'एकस्य जंतोः -' एकजीवस्य, 'अनंतजीवै: ' - अनंतजन्तुभिः सह यत् ' वैरं ' - शत्रुत्वम्, ' भवेत् ' स्यात्, तर्हि तद्वैरम् ' अनंतकालै: ' - अनन्तसमयैः, 'कथं न भोग्यम् ' -कुतो न भोगाईमस्ति, 'पुनः ' - पश्चात् ' एधमानं ' - वर्द्धमानम्, वृद्धिं प्राप्नुवदितिभावः, ' तद् ' - वैरमेव, 'तेनैव ' - कारणेन, ततोऽपि, ' अनन्तकालादपि ' - अनन्तमनन्तकालयुक्तम् भवति, फलितमाह - एवमित्यादिना 'एवम् ' - उक्तरीत्या 'निगोदसुमताम् ' - निगोदजीवानाम्, 'वैरं ' - शत्रुत्वम्, 'सान्तम् ' - अंतेन सह विनाशीतिभावो न भवति, ' दुष्कर्म ' - निकृष्टं कर्म, न सान्तं भवति, 'च'- पुनः, ' कालः '-समयोऽपि न सांतो भवति ।। २९-३० । मूलम् - लोके यथा गुप्तिगृहाश्रिताना - मन्योन्यसंमर्दनिपीडितानाम् ।
प्रत्येकमाबद्धनिकामवैर-भाजां नराणां किल कर्मबन्धः ॥ ३१ ॥ भावस्त्वमीषामलमीदृशः स्या- यदेषु कश्चिन्त्रियतेऽपयाति वा । तदाहमासीय सुखेन भक्ष्य-मायाति किञ्चिद्धनमंशतश्च ॥ ३२ ॥