________________
जैन
तत्त्वसार
॥ ६१ ॥
विकभारापेक्षया, 'गौरवं ' - गुरुत्वं, ' न याति ' - न प्राप्नोति, गुरु न भवतीतिभावः, दृष्टान्तरमभिधातुकाम आहष्टान्त इत्यादि ' अ ' - अस्मिन् विषये, ' शास्त्रगः ' - शास्त्रसंबंधी, शास्त्रोक्त इतिभावः, 'एकः '-दृष्टान्तः, पुनः कथ्यते तमेवाह - सिद्ध इत्यादिना ' यथा ' - येन प्रकारेण, ' सिद्ध: ' - औषधादिभिः सिद्धिं नीतः, 'तोलकमान पारदः 'तोलकपरिमाणकः सूतः, यो भवति स पारदः, ' हेम्नः ' - सुवर्णस्य, शततोलकेन ' - शतसंख्याकतोलकैः, ' स्विन्नः ' - पार्क नीतः, भवति ' यद्यपि ' - तथाऽपि, 'असौ ' - पारदः, 'निजतोलकाभरात् ' - स्वस्य तोलकपरिमा ust भारस्तदपेक्षया, 'न वर्धते ' - अधिक वृद्धिं न याति दान्तविषय आह - एवमित्यादिना 'एवम् ' -उक्तप्रकारेण, 'कृताहृतौ ' - कृताहारे जीवेऽपि, 'भरः न ' - भारो नैव भवति । उक्तरीत्या कृताहारेऽपि जीवे पूर्वापेक्षयाऽधिको भारो न भवतीत्यर्थः ।। २१-२२-२३ ॥
मूलम् - यथा पुनर्मारुतपूर्णमध्या, दृतिः स्वभारादधिकी भवेन्नो ।
तथैव जीवो विहिताशनोऽपि, स्वगौरवान्नाधिकगौरवचित् ॥ २४ ॥
टीका — अत्रैव दृष्टान्तरमाह-यथा पुनरित्यादिना पुनः ' यथा ' - येन प्रकारेण, 'मारुतपूर्ण मध्या' - मारुतेन वायुना पूर्णं—–भृतं मध्यं-मध्यभागो यस्याः सा तथा पवनपूर्णेत्यर्थः, 'दृतिः ' - चर्मपुटकः, 'स्वभारात् ' - स्वभारापेक्षया, 'नो'नैव, ' अधिकी भवेत् ' - अधिकभारयुक्ता जायते, ' तथैव ' - तेनैव प्रकारेण, 'विहिताशनोऽपि ' - कृताहारोऽपि, ‘जीवः 'जन्तुः, ' स्वगौरवात् ' - स्वभारात्, स्वभारापेक्षयेति यावत्, ' अधिक गौरवचित् ' - अधिकभारयुक्तो न भवति ॥ २४ ॥
दशमोऽधिकारः
॥ ६१ ॥