SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ROARRORG • मूलम्-स्वामिनिगोदाद्यसुमान् न्यदन् सन्, न गौरवं केन लभेद गुणेन च । यथा हि सूतो विविधांश्च धातू-नश्नन् भजत्येष गरिष्ठतां नो ॥२१॥ वस्त्रं यथा चम्पकपुष्पवासितं, यथा च कृष्णागुरुधूपधूपितम् । न मौलभारान्ननु याति गौरवं, दृष्टान्त एकः पुनरत्र शास्त्रगः ॥२२॥ सिद्धो यथा तोलकमानपारदः, स्विन्नः स हेम्नः शततोलकेन । न वर्धतेऽसौ निजतोलकादभरा-देवं न जीवेऽपि भरः कृताहृतौ ॥ २३ ॥ टीका-निगोदजीवानाम् गुरुत्वविषये प्रश्नयति-स्वामिन्नित्यादिना 'हे स्वामिन् !'-हे प्रभो !, 'निगोदाद्यसुमान् '-निगोदादिजीवान् , ' न्यदन सन् '-आहारं कुर्वन् सन् , 'केन '-गुणेन, 'गौरवं '-गुरुत्वं, 'न लभेत '-न प्राप्नोति, परस्मैपदं चिन्त्यं, 'च' शब्दश्चरणपूत्तौं, अस्योत्तरमाह-यथेत्यादिना ' ही 'ति निश्चये, 'च' शब्दश्चरणपूर्ती, 'यथा'-येन प्रकारेण, 'सूतः'-पारदः, यद्यपि, 'विविधान् धातून् '-अनेकप्रकारान् सुवर्णादिधातून , 'अनन् 'भक्षयन् भवति, तथाऽपि 'एषः'-मूतः, 'गरिष्ठतां नो भजति'-गुरुत्वं न प्राप्नोति, दृष्टान्तरमाह-वस्त्रमित्यादिना 'यथा'-येन प्रकारेण, 'चम्पकपुष्पवासितं'-चम्पककुसुमैर्वासनां नीतं, 'च'-पुनः, ' यथा'-येन प्रकारेण, 'कृष्णागुरुधूपधूपितं'-कृष्णं-श्यामं यदगुरु तस्य धूपस्तेन धृपितं-वासितं वस्त्रं, 'नन्वि 'ति निश्चयेन, 'मौलभारात्'-स्वाभा. १. आहरन् । २. कृताहारे । ११
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy