SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ A दशमोऽ तत्वसार धिकार S KAKAAGAMALS परं यदाछन्नशुषीनरहिम-समुत्थवंशीत्रसरेणुरूपम् । प्रकाशयोगादभिवीक्ष्यते तत्, दृश्यास्तथा दिव्यदृशा निगोदाः ॥२०॥ टीका-उक्तविषयमेव स्पष्टयति-ते केवलेत्यादिना 'ते'-निगोदजीवाः, ' ही 'ति निश्चये, 'केवलज्ञानवता'-केवलज्ञानयुक्तेन, 'दृश्याः'-ज्ञेयाः, दर्शनीया वा सन्ति, अत्र दृष्टान्तमाह-यथेत्यादिना ' ही 'ति निश्चये, 'यथा'-येन प्रकारेण, 'अतिसूक्ष्मम्'-अतिशयेन सूक्ष्म, 'रजः'-धूलिः, 'सर्वत्र'-सर्वस्थलेषु, ‘उड्डीयमानम् '-उड्डयनं कुर्वत् , 'अक्ष्णा'-नेत्रेण, 'न दृश्यते '-नाऽवलोक्यते, 'च' शब्दश्चरणपूत्तौं, 'च'-पुनः, ' राशीभवनेऽपि '-राशिभावं प्रापणेऽपि, ‘एकोऽपि ' शब्दश्वरणपूर्ती, तद्रजः 'न बोध्यं '-न ज्ञेयं भवति, परे'-परन्तु, 'यत् '-रजः, 'आछन्नशुषीनरश्मिसमुत्थवंशीत्रसरेणुरूपम् '-आच्छादितप्रदेशे जातं यत् छिद्रं तत्रागता ये इनरश्मयः-सूर्यकिरणास्तेभ्य उत्पन्ना ये वंशीकारा:-किरणप्रतिबिम्बास्तत्र यदुड्डीयमानं रजस्तत् त्रसरेणुरित्युच्यते तद्रूपमस्ति, 'तत्'-रजः, 'प्रकाशयोगात् '-प्रकाशस्य संयोगेन, ' अभिवीक्ष्यते '-दृश्यते, 'तथा'-तेनैव प्रकारेण, 'निगोदाः'-निगोदजीवाः, 'दिव्यदृशा'-दिव्यनेत्रेण, 'दृश्या'-दर्शनीया भवन्ति ॥ १९-२०॥ निगोदजीवानामाहारादिकरणेऽपि न गुरुत्वमिति चतुःश्लोकैराह१. आच्छादितप्रदेशे जातं यत् छिद्रं तत्रागता ये इनरश्मयः-सूर्यकिरणास्तेभ्य उत्पन्ना ये वंशीकाराः-किरणप्रतिबिम्बास्तत्र यदुड्डीयमानं रजस्तत् त्रसरेणुरित्युच्यते तस्य यदूपं दर्शनम् ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy