________________
3646
मूलम् - एवं निगोदासुमतां परस्परा - श्लेषेऽस्ति तेषामतिबाधनं सदा । तथाऽपि चान्यस्य न वस्तुनोऽस्ति, संकीर्णता नैव विहायसश्च ॥ १७ ॥ टीका - दृष्टान्तं दाष्टन्ते घटयति- एवमित्यादिना 'एवम् ' -उक्तरीत्या, 'निगोदासुमतां' - निगोदजीवानां, 'परस्पराश्लेषे' - मिथः संश्लेषे सति यद्यपि, ' तेषां - निगोदजीवानां, 'सदा' -सर्वदा, 'अतिबाधनम् ' - अतिपीडनम्, 'अस्ति - भवति, 'तथापि' - तदपि, 'च' शब्दश्वरणपूर्वौ, 'अन्यस्य वस्तुनः' - भिन्नस्य पदार्थस्य, निगोदजीवेभ्योऽन्यपदार्थस्येतिभावः, अतिबाधनम् ' नास्ति '- न भवति, 'च' - पुनः, 'विहायस: ' - आकाशस्य, 'संकीर्णता '- संकीर्णत्वम् नैव भवति ||१७|| मूलम् - यथाऽत्र गन्धादिकवस्तुसत्ता ज्ञेया नसा नैव दृशाभिदृश्या ।
एवं निगोदात्मभृतोsपि जैन - वाक्याद्विबोध्या मनसा न वीक्ष्याः ॥ १८ ॥
टीका- निगोदजीवादर्शनविषय आह-यथाऽत्रेत्यादि ' यथा ' - येन प्रकारेण, 'अत्र' - अस्मिन् संसारे, 'गन्धादिकवस्तुसत्ता' - गन्धादिकपदार्थस्य भावः, 'नसा' - नासिकया, 'ज्ञेया' - ज्ञातुं योग्या भवति, किन्तु 'दशा' - नेत्रेण, 'नैवाभिदृश्या'न दर्शनीया अस्ति, 'एवम् ' -उक्तप्रकारेण, ' निगोदात्मभृतोऽपि ' - निगोदजीवा अपि 'जैनवाक्यात् ' - जिनवचनात्, 'मनसा' - मानसेन, ' विबोध्याः - ज्ञेयाः सन्ति किन्तु ' वीक्ष्याः ' - नेत्रेण दर्शनीया न सन्ति ॥ १८ ॥
मूलम् - ते केवलज्ञानवता हि दृश्याः, यथा हि सर्वत्र रजोऽतिसूक्ष्मम् ।
उड्डीयमानं न च दृश्यतेऽक्षणा, न चापि राशीभवनेऽपि बोध्यम् ॥ १९ ॥