________________
जैन
तत्त्वसार
॥ ५९ ॥
मूलम् - सत्यं निगोदा अतिसूक्ष्मनाम - कर्मोदयात्सूक्ष्मतरा भवन्ति । एकां तनुं तेऽधिगता अनन्ता-स्तथाऽप्यदृश्या ननु चर्महग्भिः ॥ १५ ॥
टीका - अस्योत्तरमाह - सत्यमित्यादिना 'सत्यमि' ति - पूर्वोक्तं कथनं सत्यमस्तीत्यर्थः, निगोदजीवाः, 'अतिसूक्ष्मनामकर्मोदयात् ' - अतिसूक्ष्मनामकस्य कर्मण उदयेन, 'सूक्ष्मतराः '- अतिसूक्ष्माः, 'भवन्ति' - जायन्ते, 'एकां तनुं' - एकं शरीरम्, ' अधिगताः ' - प्राप्ताः, ' ते ' - निगोदजीवाः, यद्यपि, ' अनन्ताः' - अनन्तसंख्या भवन्ति, 'तथाऽपि' - तदपि, 'नन्वि ति निश्चयेन, ' चर्मदृग्भिः ' - चर्मनेत्रैः, ' अदृश्या: ' - द्रष्टुमयोग्या भवन्ति ॥ १५ ॥
मूलम् - यथोग्रगन्धामृतदेहिरामठा - दिकोत्थगन्धो बहुधा यथा मिथो । लिष्टोऽभितिष्ठेन्न तदन्यवस्तुनः, सङ्कीर्णता नापि नभोभुवस्तथा ॥ १६ ॥
टीका - घनी भावोऽपि नभसोऽसङ्कीर्णत्वविषये सदृष्टान्तमाह-यथोत्रेत्यादिना ' यथा ' - येन प्रकारेण, ' उग्रगन्धा 'वचा, ' अमृतदेही ' - अमृतो जीवः, ' रामठः '- हिंगुः, इत्यादिकैरेतत्प्रभृतिभिः, 'उत्थः ' - उत्पन्नो यो गंधः, 'यथे'ति चरणपूर्त्ती, 'मिथः ' - परस्परं, ' बहुधा ' - अनेकप्रकारैः, 'लिष्टः '- मिलितः, ' अभितिष्ठेत् '- तिष्ठति, परन्तु, 'तदन्यवस्तुनः' - तस्मादभिन्नस्य पदार्थस्य, 'सङ्कीर्णता 'संकीर्णत्वं न भवति, 'तथे 'ति समुच्चये, 'नभोभुवः ' - आकाशभूमेरपि न संकीर्णता भवति ॥ १६ ॥
१. बचा। २. कलेवर ।
दशमोsधिकारः
॥ ५९ ॥