SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मूलम् - दृष्टान्तदाान्तिकतेयमात्मना, संयोजनीया समभावभाविना । एवं च सूक्ष्मा गुरवश्च पण्डितै-दृश्यास्तु दृष्टान्तगणाः स्वबुद्धितः ॥ १३ ॥ टीका-फलितमाह-दृष्टान्तेत्यादिना 'समभावभाविना '-समत्वविचारकर्ता जनेन, 'इयं'-पूर्वोक्ता, ' दृष्टान्तदार्शन्तिकता'-दृष्टान्तदानॊतिकसंगतिः, 'आत्मना'-स्वयं, 'संयोजनीया'-विनियोज्या, ' एवं चे 'ति-उक्तरीत्यैवेत्यर्थः, 'सूक्ष्माः'-अगुरवः, 'च'-पुनः, 'गुरवः'-महान्तः, 'दृष्टान्तगणाः'-दृष्टान्तसमूहाः, 'तु'-शब्दश्चरणपूत्तौं, 'पण्डितैःविद्वद्भिः, 'स्वबुद्धितः'-निजप्रज्ञयैव, ' दृश्या:'-ज्ञातव्याः, विचारणीया इतिभावः ॥१३॥ निगोदजीवानां अदृष्टतां सप्तश्लोकैराहमूलम्-दक्षा!निगोदासुभृतः समस्तं, संव्याप्य लोकं सततं स्थिताश्चेत् । ते केन नायान्ति दृशः पथं यके, घनीभवन्तोऽपि न बाधयन्ति ॥ १४ ॥ टीका-निगोदजीवदर्शनविषये प्रश्नमाह-दक्षा इत्यादिना 'हे दक्षाः!'-हे चतुराः', 'चेत् '-यदि, 'निगोदासुभृतः '-निगोदजीवाः, 'सततं'-निरन्तरं, 'समस्तं लोकं'-सर्वसंसार, 'संव्याप्य'-व्यापूर्य, 'स्थिताः'-तिष्ठन्ति, तर्हि, 'ते'-निगोदजीवाः, 'केन'-कारणेन, 'दृशः पथम्' नेत्रस्य मार्गम् , असति समासे दृशः पथमिति चिन्त्यपदम् , 'नायांति'नागच्छन्ति, 'केन'-कारणेन, न दृश्यंत इतिभावा, 'यके'-ये च, 'घनीभवन्तोऽपि -घनीभावं प्राप्नुवन्तोऽपि, 'न बाधयन्ति '-न बाधन्ते, स्वार्थे णिच् प्रत्ययो बोध्यः॥ १४ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy