________________
निगोदजीवा अनन्तकालं यावत् दुःखिनो भवेयुस्तादृग् कर्मबन्धनं च कुर्वन्तीत्याह त्रयोदशश्लोकैः—
मूलम् - साधो ! निगोदाङ्गभृतोऽतिदुःखिताः स्युः कर्मणा केन निगद्यतामिदम् ।
इमं विना केवलिनं न कश्चिद्विज्ञोऽपि विज्ञातुमलं विचारम् || २५ ।। तथापि च प्रत्ययहेतवेदः, निगद्यते किञ्चन कर्मजांतम् । rataमी अत्र निगोदजीवाः, स्थूलात्रवान्सेवितुमक्षमा हि ॥ २६ ॥ परन्त्वमी एकतनुं श्रिता य-त्तिष्ठन्त्यनन्ताः प्रतिजन्तुविद्धाः । पृथक्पृथग्देहगृहप्रमुक्ताः, परस्परद्वेषकरात्मसंस्थाः ॥ २७ ॥ अत्यन्तसङ्कीर्णनिवासलाभा - दन्योन्यसम्बद्धनिकाच्यवैराः । प्रत्येकमप्येष्वभिवर्त्तमान-मनन्तजीवैस्तत उग्रवैरम् ॥ २८ ॥
टीका - इदानीं निगोदजीवदु:खहेतुविषये प्रश्नयति साधो ! इत्यादिना 'हे साधो !' - हे निग्रंथ !, 'निगोदाङ्गभृतः 'निगोदजीवाः, 'केन कर्मणा ' - केन कार्येण, ' अतिदुःखिताः ' - अतिक्लेशयुक्ताः, ' स्युः ' - भवन्ति, 'इदम् ' - एतत्, ' निगद्यताम् ' - कथ्यताम् भवता, अस्योत्तरमभिधातुकाम आह - इममित्यादि यद्यपि ' इमं - पूर्वोक्तं, 'विचारं ' - विमर्श,
१. कर्मप्रकारम् । २. प्रत्येकत्वाभावात् भिन्नभिन्नशरीररूपगृहरहिताः । ३. परस्परद्वेषकारणात्मना तेजसकार्मणाख्येन संस्था संस्थितिर्येषां ते । ४. एकमेकं प्रत्यात्मनात्मानं संविध्य २ एकीभूय तिष्ठति ।